________________
श्रीदे० चैत्य० श्री धर्म० संघा चारविधौ ॥२६४॥
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kaisuri Gyanmandir
भूमीए वोसिरितु उवउत्तो । वोसिरिऊण य तत्तो इरियावहियं पडिकमड़ || २ || वोसिरइ मत्तगे जड़ तो न पडिक्कमइ मत्तगं जो उ। साहू परिट्ठवे नियमेण पडिक्कमे सो उ || ३ || एवमन्यथापि जलादेश्चतुरंगुलमाने रिल्लकेऽपि जाते, अगमने वा शयनादिनाऽऽगताबोधे कुबोधे वा, नञः कुत्सार्थत्वादितस्ततो भ्रमणे चेत्येवमन्यत्रापि, यद्वा गमनामने तत्रैव प्रवृत्तिनिवृत्यात्मके नवरमौत्सुक्यादिना बहिर्यापथिकी प्रतिक्रम्यैवागमने यथागमं इह च गमनागमने च गमनागमने चेति विगृह्येकशेषे गमनागमनं तत्र, एतावता च दिनमध्येऽनेकविषयत्वात् अनियत बहुवारप्रतिक्रमणीया ईर्यापथिकी प्रातः प्रदोषसंध्यानियमितैकैकवारकरणीयं रात्रिकं दैवसिकमितिनामकं प्रतिक्रमणं न भवति इत्यावेदितं, अन्यच्च - देवसिकरात्रि के सामायिकादिपडध्ययनात्मके व्रतातिचारविशोधिविषये च 'पडिकमणेणं वयच्छिड्डाई पिहेइति वचनात् ईर्यापथिकी तु केवलाऽपि पृथकक्षुतस्कन्धरूपा प्रायः प्राणातिपातविराधनानिवृत्तिविषया च, किंच-सर्वत्र सर्वदा सर्वेषामपि धर्मानुष्ठानानामादौ यथैषा प्रतिक्रम्यते न तथा दैवसिकादिप्रतिक्रमणमित्यादि बृहद्विशेषात् सर्वथा पृथग् अनुष्ठानादुभयसंध्यावश्यकरणीयतालब्धयथार्थनामदेवसिकादिप्रतिक्रमणस्वरूपेयमिति वक्तुमपि न युज्यते, किं पुनः तत्स्थाने कर्तुं १, दैवसिकादिनाम्ना क्वचिदपि आगमेऽनुपलभ्यमानत्वाच्च, विचारणीयमिदं मध्यस्थदृष्टया सम्यग् बहुश्रुतैरभिनिवेशादिविरहेण । एषा सामान्या हेतुसंपत् तृतीया । अथ गमनादौ सत्यपि कथं विराधनेति चतुर्थी विशेषहेतुसंपदमाह - 'पाणकमणे बीकमणे हरियकमणे ओसाउत्तिंगपणगदगमट्टिमकडासंताणासंकमणे' इह सदा (जीव )गतिक्रमाद्यात्मविराधनानां जीवविराधना गरीयसी, जीवाश्च त्रसाः प्रायो लोकेऽपि प्रतीता एव, यतः कृमिकीटपतङ्गादीन् दृष्ट्वा वक्तारो भवन्ति-जन्तुकोऽयं गच्छतु वराकः, त्वं मा मारय, पापं स्यात्, मारय चैनं वैरिणमित्यादि, न चैत्रमाहुः - पञ्चभूतात्मकः
For Private And Personal
ईर्यापथिकीव्याख्या
॥२६४॥