SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mat श्रीदे० चैत्य० श्रीधर्म० संघा चारविधौ ।।१५२।। Aradhana Kendra www.kobatirth.org Acharya Shri Kasuri Gyanmandir प्रभावनानिमित्तं महद्र्ष्या चैत्यादिषु याति, अथ सामान्यविभवस्तदौद्धत्यादिपरिहारेण लोकापहासं परिहरन् व्रजति, तत्र चैत्ये प्रविशन् पंचविधाभिगमं करोति, इत्येतत्संबंधायातं द्वितीयं 'अभिगमपणगं'ति द्वारं विवृण्वमाह - सच्चित्तदवमुज्झण १ मच्चित्तमणुज्झणं२ अणेगत्तं३ । इगसाडिउत्तरासंग ४ अंजली सिरसि जिणदिट्ठे५ ॥ २० ॥ सचिचद्रव्याणां खांगाश्रितानां कुमुमतांबूलादीनां उज्झनं परित्यागः १ अचित्तानां - कटककुंडलकेयूरहारादीनां द्रव्याणां इत्यत्रापि योज्यं अनुज्झनं-- अपरित्यागः २ मनऐकाय्यं रागद्वेषाभावेन मनःसमाधिरनन्योपयोगितेतियावत् ३ एकशाटक उत्तरासंग ः ४ एकः - एकसंख्यो न द्वयादयः शाटको देशांतरप्रसिद्धः पृथुलपटादिरूपो यत्र स उत्तरासंगः- उपरितनं वस्त्रं प्रावरणवस्त्रमित्यर्थः, उक्तं च आचाराङ्गचूर्णो- 'एगसाडो, यदुक्तं भवति - एगपावरणु' ति तेन कृत्वा उत्तरासंग-उत्तरीयकरणं' कल्पचूर्णावप्युक्तं- 'उत्तरिअं नाम पावरणं, क्वचित् उत्तरिअं नाम पंगुरणमितिपाठः, एवं च एगेण पंगुरणवत्थेण उत्तरासंगो किजइ इति भणियं होइ, 'अनेन च निवसनवस्त्रेणोत्तरासङ्गकरण निषेधमाह', निवसनवसनस्यांतरीयशब्दवाच्यत्वात्, तथा च कल्पनिशीथचूर्णी 'अंतरिजं नाम नियंसणं'ति, एकग्रहणं पुनरुत्तरासङ्गेऽनेकवस्त्रनिषेधार्थं, न तु सर्वथोपरितनप्रावरणवस्त्रस्य एवं च परिहितैकवस्त्रो द्वितीयेन वस्त्रेण उत्तरासंगं कुर्याद् इत्युक्तं भवति, यदुक्तं पंचाशकवृत्तौ - 'एकवस्त्रपरिधानः एकेन चोपरितनवस्त्रेण कृतोत्तरासंग' इति, मार्कण्डेयपुराणेऽप्युक्तं नैकवस्त्रेण भुञ्जीत न कुर्याद्देवतार्चनम्" इत्यादि, एतच्च पुरुषमाश्रित्योक्तं, स्त्री तु विशेषप्रावृताङ्गी विनयावनततनुलतेति, तथा चागमः - "विणओणयाए गायलट्ठीए "त्ति, एतावता शक्रस्तवादावप्यासां शिरस्यंजलिन्यासो न युज्यते, हृदादिप्रसक्तेः, यत्तु करयल जाव कट्टु एवं व्यासीत्युक्तं द्रौपदीप्रस्तावे तद् भक्त्यर्थं न्युंछादिवदं For Private And Personal अभिगमपंचकं ।।१५२।।
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy