________________
Shri Main Aradhana Kendra
अथ तृतीया भावपूजा, सा च स्तुतिभिर्लोकोत्तरसद्भूततीर्थ करगुणगणवर्णनपराभित्र पद्धतिभिर्भवति, आह च - " तइया उ भावपूया ठाउं चियवंदणोचिए देसे। जहसत्तिचित्तथुइधुत्तमाइणा देववंदणयं ॥ | १ || ”ति । तथा निशीथे 'सो उ गंधार सावओ थयधुईहिं तो तत्थ गिरिगुहाए अहोरतं निवसिओ” तथा वसुदेवहिंडौ 'कयाई च भाणुसिट्ठी सह घरणीए जिणपूयं काऊण पजालिएसु दीवेसु पोसहिओ दब्भसंथारगगओ थयथुइमंगलपरायणो चिट्ठा, भयवं च गयणचारी अणगारो चारुनामा उवइओ, कय जिणसंथवो कयकायविउस्सग्गो य आसीणो", तथा “चारुदत्तो उवगओ, अंगमंदिरं पविट्ठो, जिणाययणचेडेहिं उवणीयाणि पुप्फाईणि, कयं अच्चणं परिमाणं, धुईहिं वंदणं कथं, निग्गओ जिणभवणाउत्ति, वसुदेवो पच्चूसे कयसमत्तसावय सामाइयाइनियमो गहियपश्चक्खाणो कयकाउस्सग्गथुइवंदगो उइण्णावसरे कुसुमुच्चयं काउं" तत्तृतीयखंडे " खयरवहू संसत्तथुइसय गुम्मंततीपयाहिणभमंतसिरिसं कुलाए पासिया महिम "त्ति, तथा 'गया मो सिद्धाययणं, थुईहिं वंदणं कयं इत्यादि, तथाऽन्यत्र “वंदणं (दइ) उभओ कालंपि चेइआई थयत्थुईपरमो " एवं अनेकेषु स्थानेषु श्रावकादिभिरपि कायोत्सर्गस्तुत्याद्यैश्चैत्यवंदना कृतेत्युक्तं तत्केन लिख्यते इति भाविता तृतीया भावपूजापि । वेत्यथवा प्रकारांतरेण पंचाष्ट सर्वोपचाररूपेण ३ पूजात्रिकं भवति इतिशेषः, तथा च बृहद् भाष्यं-पंचोवयारजुत्ता पूया अट्ठोवयारकलिया य। रिद्धिविसेसेण पुणो नेया सहोत्रयारावि ॥ १ ॥ (२०९) श्रीहरिभद्रसूरिभिरपि पूजाषोडशके भणितं - पंचोपचारयुक्ता काचिच्चाष्टोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या प्रोक्ता सर्वोपचारेति ॥ १॥ तत्रैका पंचोपचारा, सा च प्रायः अंगपूजाविपयेत्येकात्मिका, एषा च श्रीउमाखातिवाचकेन प्रशमरत्या मेवमुक्ता चैत्यायतनप्रस्थापनानि कृत्वा च शक्तितः प्रयतः। पूजाश्च गंधमाल्याधिवासधूपप्रदीपाद्यैः || १ || अधिवासो गंधमाल्यादिभिः संस्कारविशेषः, दृष्टा चागमेऽधिवासपूजा युगपदेवं मिलनतो
श्रीदे०
चैत्यश्रीधर्म० संघा - चारविधौ
।। ६५ ।।
www.kobatirth.org
For Private And Personal
Acharya Shri Kailasturi Gyanmandir
पूजात्रिकविचारः
।। ६५ ।।