SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mat श्रीदे० चैत्यश्रीधर्म० संघाचारविधौ ॥ ३३ ॥ Aradhana Kendra एकं अष्टमे षोडश शतानि सप्तचत्वारिंशदधिकानि नवमे एकाशीत्यधिकं शतं दशमे सप्तनवतिः एकादशे पंच द्वादशे द्वादश त्रयोदशे चत्वारि चतुर्दश एकं पंचदशे चत्वारि षोडशे चत्वारि सप्तदशे अष्टौ अष्टादशे द्वादश एकोनविंशतितमे पोडश विंशतितमे एकोनविंशतिः एकविंशतितमे एक द्वाविंशे एकं त्रयोविंशे सप्त चतुर्विंशतितमे दश, सर्वे मिलिताः चतुःसप्तत्यधिकद्विसहस्रा भवंतीति द्वारगाथाचतुष्टयार्थः ॥ अथ 'यथोद्देशं निर्देश' इति न्यायात् प्रथमं द्वारं व्याचिख्यासुः दशत्रिकप्रचिकट विषया शास्त्रप्रतिमुखरूषाणि प्रतिद्वाराणि चिरंतनगाथाद्वयेनाह— www.kobatirth.org Acharya Shri Kailash Gyanmandir तिन्नि निसीहि१ तिनि उ पयाहिणार तिन्नि चैव य पणामा३ । तिविहा पूया य तहा४ अवत्थतियभावणं५ चेव ॥ ६ ॥ तिदिसि निरिक्खणविरई६ पयभूमिपमजणं च तिक्खुत्तो ७ । वनाइतियं८ मुद्दातियं च९ तिविहं च पणिहाणं १० ॥ ७ ॥ तिस्रो नैषिधिक्यो- गृहादिव्यापारपरिहाररूपाः, जिनगृहादिस्थाने प्रविशता कर्तव्या इति क्रियाऽध्याहारः एवमन्यत्रापि 'यथ निवं परशुना, यश्चैनं मधुसर्पिषा । यश्चेनं गंधमाल्याभ्यां सर्वत्र कटुरेव स ||१|| इत्यादिवत् यथानुरूपा क्रियाऽध्याहार्येति प्रथमं त्रिकं १ | तिस्रश्च प्रदक्षिणा दातव्याः, तत्र प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां दक्षिणं-आत्मनो दक्षिणांगभागावर्ति मूलबिंबं ज्ञानादित्रयानुकूल्यकृते क्रियते यत्र प्रतिपत्तौ सा प्रदक्षिणेति द्वितीयं त्रिकं२ । त्रयश्च प्रणामाः- प्रकर्षेण शीर्षादिना भूस्पर्शादिलक्षणेन नामा- नमनानि प्रीभावा जिनस्याग्रे विधेयाः, नमस्कारकरणकाले भक्त्यतिशयख्यापनार्थं त्रीन् वारान् शिरोनमनादि विधेयं, For Private And Personal द्वारमाथार्थः ॥ ३३ ॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy