________________
www.kobatirth.org
s uri Gyanmandir
Shri
| श्रीदे० चैत्यश्रीधर्म० संघाचारविधौ
miNANI
चैत्यवन्दनद्वाराणि
e
MINSAHA
Jain Aradhana Kendra
Acharya Shei ka पूर्विकव परिपूर्णा चैत्यवंदनेति प्रतिपादनार्थ, एवं तद्धतुप्रमाणवर्णादीनामपि निरूपणे कारणं वाच्यं १७ । फलाष्टकाथं कायोत्सर्गाः कार्या इत्यभाणि, तत्र न कारणमंतरेण कार्यप्ररोहसंभावना, बीजेन विनाकुरप्रादुर्भावाभाववदिति निमित्तद्वारानंतरमष्टादशं हेतुद्वारं 'बारह हेऊ यत्ति हेतवश्च फलसाधनयोग्यानि कारणान्यत्र वक्ष्यंते, यथा-'तस्स उत्तरीकरणे'त्यादि,चशब्दो निमितहेतून कश्चित् कथंचन कतिचिन् मन्यत इति वाचनांतरप्रदर्शनार्थः, ततु अग्रे दर्शयिष्यते १८। इति निमित्तहेतुभिः कृतोऽप्युत्सों नाकारैर्विना निरतिचारः शक्यः पालयितुमित्याकारद्वारमेकोनविंशतितमं 'सोल आगार'त्ति, षोडश आकाराः-अपवादाः कायोत्सर्गकरणे ज्ञातव्याः, वक्ष्यति च 'अन्नत्थयाइ बारसे'त्यादि १९। कृते चोत्सर्गे दोषा वा इति विंशतितमं दोषसंख्याद्वारं | 'गुणवीस'त्ति,एकोनविंशतिदोषाः कायोत्सर्गस्थैर्वजनीयाः, अभिधास्यति च-'घोडग लयेत्यादि२० कियंतं च कालमेवमुत्सर्गः | कार्य इत्येकविंशं तत्प्रमाणद्वारं 'उस्सग्गमाणु'त्ति, कायोत्सर्गप्रमाणमत्र ज्ञेयं, वक्ष्यति च 'इरिउस्सग्गपमाणमित्यादि २१ चैत्यवंदना हि स्तुतिस्तवादिस्वरूपाः, तत्र स्तुतयो वंदनामध्ये दीयमानत्वात् तद्वारं पोडशमुक्तं, स्तवस्तु वंदनापर्यंतभावी 'चेइआई वंदिअंति, तओ पच्छा संतिनिमित्तं अजियसंतिथओ परियट्टिजई' इत्यावश्यकचूणि (पारि.नि.) वचनात् तथैव सकलसंघेन क्रियमाणतया करणविधौ समायातत्वाच, तथाचावश्यकवृत्तावप्युक्तं 'चेइआई बंदिजंति. तओ संतिनिमित्तं अजियसंतित्वओ कदिजई (पारि०नि०) इत्यतो द्वाविंशं स्तबद्वारं 'थुत्न ति तत्र स्तोत्रं-चतुःश्लोकादिरूपं 'चउसिलोगाइपरेणं थओ भवइति व्यवहारचूर्णिवचनात् तदन भणनीयं, वक्ष्यति च-'गंभीरमहुरसमित्यादि, चशब्दो विशेषकः, तेनात्र यदेकश्लोकादिकं भगवद्गुणोत्कीर्तनपरं चैत्यवंदनायाः पूर्व भण्यते तत् मंगलवृत्ताऽपरपर्याया नमस्कारा इत्युच्यते,यड्राष्ये-उद्दामसरं वेयालिउच्च पढिऊण
HummarIMILIPutuR
R MAHARASHTRAININDIAN
SHITAPATIAHIRAIL
॥३१॥
For Private And Personal