________________
Shri
श्रीदे० चैत्यश्रीधर्म० संघा चारविधौ
।। २८ ।।
ain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailan Gyanmandir
तथा चागमः - " अहिए कुणालकइणो हीण विजाहराइदिहंता । बालाउराण भोयण सञ्जविवज्जओ उभए || १ ||" अहीनाद्यक्षरत्वं च वर्णसंख्यापरिज्ञाने सति भवतीत्यष्टमं वर्णसंख्याद्वारं, 'वण्णा सोल सय सीयाल'त्ति, वर्णाः- अक्षराणि, ते च सामान्यतोऽत्र चैत्यवंदनाधिकारे नमस्कारक्षमाश्रमणादिषु नवसु स्थानेष्वपुनरुक्ता ध्रुवभणनीयाश्च षोडश शतानि सप्तचत्वारिंशदधिकानि ज्ञातव्यानि तथाहि - अडसट्ठि६८ अठ्ठावीसा२८ नवनउअसयं च १९९ दुसय सगनउया २९७ । दोगुणतीस २२९ दुसट्टा २६० दुसोल २१६ अडनउयसय १९८ दुवन्नसयं १५२ || १ || इय नवकार १ खमासमण२ इरिय ३ सक्कत्थयाइदण्डेसु ८ । पणिहाणेसु य ९ अदुरुत वण्णा सोलसय सीआला ||२|| यदिह नमस्कारादि वर्णपरिसंख्यानं तत्तदादिमूलत्वात् सर्वधर्म्मस्येति ज्ञापनार्थं, एवं पदादिष्वपि वाच्यं, वर्णैश्च पदानि स्युरिति वर्णद्वारानंतरं नवमं पदद्वारं 'इगसीइ' इत्यादि, एकाशीत्यधिकं शतं पदान्यत्रौघतो नमस्कारादिस्थानसप्तके ज्ञातव्यानि, तुर्विशेषणे, विशेषश्चायम् - यद्यपि क्षमाश्रमण जे य अइयासिद्धेत्यादिगतानि अतिरिक्तान्यपि पदान्यत्र संति तथापि पूर्वबहुश्रुतैः संपदादिकं किमपि कारणांतरमधिकृत्यैतावन्त्येव पदानि खखभाष्यादिपूतानीति तन्मार्गा|नुगामितया अस्माभिरप्यत्रैतावत्येव तान्युक्तानि, नाधिकानीति, तथा चोक्तं लघुभाष्ये- 'नव बत्तीस तित्तीसा तिचत्त अडवीस सोल वीस पया । मंगलइरियासक्कत्थयाइसु इगसीइ सयं ।। १ ।।' एवमन्यत्रापि न्यूनाधिकत्वे कारणं वाच्यं ९, द्वित्रादिभिश्च पदैः संपदो भवतीति दशमं संपदद्वारं- 'सगनउइ संपयाउ' त्ति, सप्तनवतिः संपदः - अर्थविश्रामस्थानानि सांगत्येन पद्यते - परिच्छिद्यतेऽर्थो यामिरिति व्युत्पत्तेः संगतार्थपदपद्धतय इत्यर्थः, ताचैवं सप्तभु स्थानेषूच्यते- 'अट्ठट्ठ नवट्ठय अट्ठावीस सोलस य वीस वीसामा । मंगलइरियासक्कत्थयाइदंडेसु संगनउई ||१|| तुशब्दो नामस्तवादिषु प्रायो विशेषार्थपरिच्छेदाभावेऽपि संगतपदत्वेन 'पायसमा
For Private And Personal
चैत्यवन्दनाद्वाराणि
।। २८ ।।