________________
Shri Ma
श्रीदे० चै
स्यश्रा धर्म ० संघाचार
विधौ
॥ ३ ॥
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassarsi Gyanmandir
निदंयुगीनलोकानवलोक्य तदनुग्रहकाम्यया संक्षिप्ततरं सुखावबोधं आचारविधिनामकं शास्त्रं कर्तुकामः शास्त्रकारः आदावेव समस्तप्रत्यूहव्यूहव्यपोहाय शिष्टसमयपरिपालनाय चाभीष्टदेवतास्तुतिरूपमत्यंताव्यभिचारि मंगलं श्रोतृजनप्रवृत्यर्थमभिधेयं प्रयोजनादि च प्रतिपिपादयिषुरिमां भाष्यगाथामाह
वंदितु दणिज् स चिइवंदणाइसुवियारं । बहुवित्तिभासचुण्णीसुयाणुसारेण बुच्छामि ॥ १ ॥ वंदित्वा वंदनीयान् सार्वान् सर्वज्ञान् सर्वान् वा समस्तान् चैत्यवंदनादिसुविचारं बहुवृत्तिभाष्य चूर्णि श्रुतानुसारेण वक्ष्यामीति पदसंस्कारः । तथा इह साधिकाद्यपदे मंगलं, द्वितीयेऽभिधेयप्रयोजने, उत्तरार्धे सम्बन्धश्च ज्ञातव्यः पदार्थः पुनरयं :- ' वंदित्वे' त्यत्र "वदुङ् स्तुत्यमिवादनयो' रित्यर्थद्वयाभिधायी धातुः, तत्र स्तुतिः गुणो कीर्तनं अभिवादनं - कायेन प्रणिपातः, ततश्चायमर्थ:वंदित्वा वचनेन स्तुत्वा कायेन च प्रणम्य, अनयोश्च प्रायः संज्ञिनां मनःपूर्विचैव प्रवृत्तिरिति मनसोऽप्याक्षेपः, ततश्च मनसाऽपि प्रणिधाय चेत्यर्थः, एतेन च करणत्रयनमस्काररूपभाववंदनेन वंदित्वा इत्यावेदितं भवति, न पुनः मनःप्रणिधानविधुरतथा वीरकादिवद् द्रव्यवंदनेन, तस्याकिंचिस्करत्वेनाविकलसकलफलाकलनविकलत्वात्, कानू वंदित्वेत्याह- 'सार्वान्' सर्वमतीतानागतवर्तमानकालभाविभावनिकुरंबं सकललोकालोकलक्षणलक्ष्यावलोकनकुशलविमलकेवलज्ञानावलोकबलेन करतलकलितनिर्मलामलकफलवत् समस्तभूतभवद्भाविगुणपर्यायैर्विदंति सार्वाः, सर्वज्ञा इत्यर्थः यद्वा सर्वेभ्यो- जीवाजीबादिपदार्थसार्थेभ्यो यथावस्थिता| वितथस्वरूपनिरूपणरक्षणादिना प्रकारेण हिताः सार्वाः - तीर्थकृतः तान् किंविशिष्टानित्याह- 'वंदनीयान्' स्तूयंते अभिवाद्यंते च भक्तिभरनिर्भरांतःकरणैः सुरासुरनरनायकगणैर्ये ते वंदनीयास्तान्, त्रिभुवनजनतानमस्यानित्यर्थः । एवं निखिलमुरसमूहशिरः
For Private And Personal
मंगलादीनि
॥ ३ ॥