________________
Shri Ma
n
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kaila
l
i Gyanmandir
उपक्रमः
श्रीदे० चैत्यश्रीधर्म संघाचार
विधौ ॥ २ ॥
नुभवादिसकलसामग्रामसतरणप्रवणप्रवहणसधर्मसद्धर्मविधानलकाददशनिदर्शनदुष्पापां )
mammUHREPARATOPemunMRUMENTRIAN
इह हि दुरन्तानंतचतुरंतासारविसारिसंसारापारपारावारे निमजता भव्यजन्तुना जिनप्रवचनप्रतीतचोल्लकादिदशनिदर्शनदुष्पापां कथमपि प्रशस्तसमस्तमनुजजन्मादिसामग्रीमवाप्य भवजलधिसमुत्तरणप्रवणप्रवहणसधर्मसद्धर्मविधाने प्रयत्नो विधेयः, यदवादि"भवकोटीदुष्पापामवाप्य नृभवादिसकलसामग्रीम् । भवजलधियानपात्रे धर्मे यत्नः सदा कार्यः॥१॥" तत्रापि विशेषतः परोपकारकरणे प्रवर्तितव्यं, तस्यैवान्वयव्यतिरेकाभ्यामपि पुण्यबंधनिबंधनत्वात् , उक्तं च" संक्षेपात् कथ्यते धर्मों, जना! किं विस्तरेण वः । परोपकारः पुण्याय, पापाय परपीडनम् ॥१॥"
सचोपकारो द्वेधा-द्रव्यतो भावतश्व, तत्र द्रव्योपकारो भोजनशयनाच्छादनप्रदानादिलक्षणः, स चाल्पीयाननात्यंतिकश्च, ऐहिकार्थस्यापि साधने नैकांतेन साधीयानिति, भावोपकारस्त्वध्यापनश्रावणादिस्वरूपो गरीयान् आत्यंतिक उभयलोकसुखावहश्चेत्यतो भावोपकार एव यतितव्यं, स च परमार्थतः पारमेश्वरप्रवचनवचनोपदेश एव, तस्यैव भवशतोपचितदुःखलक्षक्षयक्षमत्वात् , आह च"नोपकारो जगत्यस्मिंस्तादृशो विद्यते कचित् । यादृशी दुःखविच्छेदाद्देहिनां धर्मदेशना ॥३॥"
स चोपदेशो यद्यपि उपदेष्टव्यभेदादनेकविधः तथापि चैत्यवंदनादिविषयः संघस्याचारविधिरेव प्रथमत उपदेश्यः, तस्यैवाहर्निशमवश्यानुष्ठेयतया प्रतिदिनक्रियत्वेनानुसमयोपयोगित्वात् , तथा च महानिशीथसप्तमाध्ययनसूत्रं-"से भयवं! किं तं पइदिणकिरियं ?, पइदिणकिरियं गोयमा! जणं अणुसमयं अहनिसं पाणोवरमं जाव अणुढेयवाणि संखिजाणि आवस्सगाणि, से भयवं! कयरे ते आवस्सगे?, गोयमा! चिइवंदणादओ" इत्याद्यागमाद् विनिश्चित्य बहुविस्तरातिगंभीरपूर्वभाष्यचूादिग्रंथोकप्रतिदिनावश्यकृत्यचैत्यवंदनाद्याचारविधिस्वरूपावगमविधिनिर्णयासमर्थान् दुषमादोषादयंतं तथाविधायुर्मेधादिबलसामग्रीविकला
For Private And Personal
PAHIRAINIK