________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम्
प्रथमोऽध्यायः
ॐ नमो गणेशाय
[अथ शिलापरीक्षा] धातुरत्नशिलाकाष्ठचित्रलेपसमुद्भवम् । यद्रूपं विधिवत्तस्य विधिं वक्ष्यामि वस्तुनः ॥१॥ एकवर्णा घना स्निग्धाऽऽमूलाग्रादार्जवान्विता। अजघण्टारवाघोषा सा पुशिला प्रकीर्तिता ॥२॥ स्थूलमूला कृशाना या कांस्यतालसमध्वनिः। स्त्रीशिला कृशमूलाऽग्रस्थूला षण्डेति निःस्वना ॥३॥ २ । अजघण्टारवाघोषेति । अजगललम्बिन्या घण्टाया रख इवाऽऽधोपो रखो यस्याः सेत्यर्थः । सा च किङ्किण्यपरपर्याया क्षुद्रा घण्टिका। यच्च मयमते 'गजघण्टारवेति (अ० ३३, ८ श्लो०) पाठस्तस्यापि क्षुद्रघण्टेत्यर्थः, गजगले तादृश्या एव घण्टिकाया बन्धनप्रसिद्धः। अत्र च किं मयमतीयपाठदर्शनाद गजवण्टैव लेखकप्रमादादिहाजघण्टात्वमापन्ना, अनत्यपाठस्वरसादजघण्टैव वा मयमते गजघण्टात्वमापन्ना, उतोभयमेव पृथक् प्रमाणमित्यपि च न सुनिर्णेयम् । काश्यपशिल्पे तु “घण्टाध्वनिसमोन्नादे"ति (अ० ४९, ५५ श्लो०) पाठः ।।
३। स्थूलमूलेति। कांस्यतालसमध्वनिरिति कांस्यनिर्मितेन तालेन वायभाण्डविशेषेण समस्तुल्यो ध्वनिर्यस्याः सा। तथाच मयमते
स्थूलमूला कृशाग्रा या कंसतालसमध्वनिः ।
स्त्रीशिला ... ... ... ॥ इति । (अ० ३३, ९ श्लो०) कंस कांस्यञ्च पर्यायशब्दौ। यद्यपि
तालः करतलेऽङ्गुष्ठमध्यमाभ्याञ्च सम्मिते । गीतकालक्रियामाने तालः खड्गादिमुष्टिषु ॥
For Private And Personal Use Only