SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपमण्डने वक्ष्यामि (१)गौयायतनं देवतानामनुक्रमात् । वामे सिद्धिः श्रिया याम्ये सावित्री चैव पश्चिमे ॥ ८॥ पृष्ठकर्णद्वये कायर्या भगवती सरस्वती । ईशाने तु गणेशः स्यात् कुमारौ चामिकोणके ॥९॥ कुण्डलाभ्यामलंकृता चेश्वरस्य सदा प्रिया । मध्ये गौरी प्रतिष्ठाप्या सर्वाभरणभूषिता ॥ १० ॥ इति गौर्यायतनम् । अभयाङ्कुशपाशदण्डैर्जया चैव तु पूर्वतः । सव्यापसव्ययोगेन विजया (२)तामसा भवेत् ॥ ११ ॥ अभयाम्बुज(३)पोदण्ड अजिता चापराजिता । अभयवज्राङ्कुशदण्डैर्विभक्ता (४)मण्डलाऽपि च ॥ १२ ॥ अभयं शङ्खपद्मदण्डैमोहिनी स्तम्भिनी तथा । जया च विजया चैव अजिता त्वपराजिता ॥ १३ ॥ विभक्ता (५)विमला चैव मोहिनी स्तम्भिनी तथा । गौया आयतने श्रेष्ठा(६)अष्टा स्युद्वारपालिका(:) ॥ १४ ॥ इति गौर्या अष्टौ द्वारपालिकाः । दन्तञ्च परशुं पद्मं मोदकञ्च गजाननः । गणेशो मूषकारूढो बिभ्राणः सर्वकामदः ॥ १५॥ इति गणेशः। वरं तथाऽङ्कुशं दन्तं दक्षिणे (७)पार्श्वधाभयौ । वामे कपालं बाणाक्षं पाशं (८)कौमोदकी तथा ॥ १६ ॥ (१) 'गौर्यायतनदेवतानामनुक्रमम्' इति स्यात् । (२) 'नाम सा' इति स्यात् । (३) पाशदण्डैरजिता' इति स्यात् । (४) 'मङ्गला' इति स्यात् । (५) पूर्वत्र (१२) 'मङ्गला' 'मण्डला' वेत्युपलम्भादत्रापि तयोरन्यतरदेव नाम स्यात् । (६) 'अष्ट' 'अष्टौ' वा स्यात् । (७) 'पवधाभये' इति स्यात् , एवञ्चात्र पवधशब्दः 'पशु'शब्दवत् परशुपर्यायो द्रष्टव्यः। (८) 'कौमोदकी' इति साधुः । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy