SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३२ www.kobatirth.org रूपमण्डने मातुलिङ्गञ्च नागेन्द्रं डमरुं बीजपूरकम् । नन्दी मुकुटशोभाढ्यः (१) सर्वाभरणभूषितः ॥ १०० ॥ खट्वाङ्गञ्च कपालञ्च डमरुं बीजपूरकम् । दंष्ट्राकरालवदनो महाकालस्तु दक्षिणे ॥ १०१ ॥ इति पूर्वप्रतिहारौ । Acharya Shri Kailassagarsuri Gyanmandir तर्जनी च त्रिशूलञ्च डमरुं गजमेव च । हेरम्बो वामभागे स्याद् भृङ्गी दक्षिणतः स्मृतः ॥ १०२ ॥ गजं डमरुखटुाङ्गं तर्जनीं वामहस्ततः । उभौ च दक्षिणे द्वारे भृङ्गी दक्षिणतः स्मृतः ॥ १०३ ॥ इति दक्षिण प्रतिहारौ । त्रिशूलं डमरुञ्चैव खट्ाङ्गं च कपालकम् । कपालं डमरुं दन्तं बीजपूरं तथा दधत् ॥ १०४ ॥ दुर्मुखः पश्चिमे वामे पाण्डुरो दक्षिणे तथा । [ इति पश्चिमप्रतीहारौ ] मातुलिङ्गं मृणालञ्च खटु।ङ्गं पद्मदण्डकौ ॥ १०५ ॥ सितो वामेsसितो दक्षे उत्तरद्वारसंस्थितौ । पद्मदण्डञ्च खटुङ्गिं मृणालं बीजपूरकम् ॥ १०६ ॥ [ इत्युत्तरप्रतीहारौ ] इति (२) शिवप्रतिहारौ । इति श्रीसूत्र XX मण्डनविरचिते वास्तुशास्त्रे रूपमण्डने शिवमूर्त्तिशिवलिङ्गलक्षणाधिकारश्चतुर्थोऽध्यायः ॥ ४ ॥ (१) 'सर्पाभरण -' इति स्यात् । ( २ ) ' शिवप्रतीहारा:' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy