________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः चित्रवस्त्रधरं कुर्याच्चित्रयज्ञोपवीतिनम् । चित्ररूपं महेशानं चित्रैश्वर्यसमन्वितम् ॥ १७ ॥ चतुर्बाहुं चैक(१)वस्त्रं सर्वालङ्कारभूषितम् । खड्गं धनुः शरं खेटं श्रीकण्ठं बिभ्रतं भुजैः ॥ १८ ॥
इति श्रीकण्ठस्वरूपम् [८] । अहिर्बुध्नो गदासर्प चक्रं डमरु-मुद्गरौ । शूलाङ्कुशाक्ष(२)माला च दक्षोर्ध्वाधःक्रमाद्दधत् ॥ १९॥ तोमरं पट्टिशं चर्म कपालं तर्जनीघटौ । (३)शक्तिः परशुकं वामहस्ते सन्धारयत्यसौ ॥ २० ॥
इत्यहिर्बुध्नः [९]। विरूपाक्षस्ततः खड्गं शूलं डमरुमङ्कुशम् ।। सर्पञ्चक्रं गदामक्षसूत्रं बिभ्रत् कराष्टकैः ॥ २१ ॥ खेटं खटाङ्गशक्तिञ्च परशुं तर्जनीघटम् । घण्टाकपालकं चेति वामोर्खादिकराष्टकैः ॥ २२॥
- इति विरूपाक्षः [१०]। बहुरूपो दधद दक्षे डमरं च सुदर्शनम् । सर्प शूलाङ्कुशौ कुम्भं कौमुदीजपमालिकाम् ॥ २३ ॥ घण्टाकपालखटाङ्गतर्जनीकुण्डकां धनुः । परशुं (४)पट्टिकं चेति वामोर्ध्वादिक्रमेण हि ॥ २४ ॥
इति बहुरूपी सदाशिवः [११] । त्रयम्बकोऽथ दधचक्र डमरूं मुद्गरं शरम् । (५)शूलाङ्कुशान्यक्षसूत्रं दक्षोर्ध्वादिक्रमेण हि ॥ २५ ॥
____ (१) 'वक्त्र' इति स्यात् । (२) 'भालाश्च' इति स्यात् । (३), 'शक्ति' इति स्यात् । (४) 'पट्टिशं' इति स्यात् । (५) 'शूलाङ्कुशावक्षसूत्र' इति स्यात् ।
For Private And Personal Use Only