________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् क्षेत्र कोल्लापुरादन्ये महालक्ष्मीर्यदाऽर्च्यते। लक्ष्मीवत् सा तदा कार्या रूपाभरणभूषिता ॥ १०७॥ दक्षिणाधः करे पात्रमूर्द्ध कौमोदकी भवेत्। वामार्धे खेटकं धत्ते श्रीफलं तदधःकरे ॥ १०८ ॥
इति महालक्ष्मीः । कात्यायन्याः प्रवक्ष्यामि रूपं दशभुजं तथा। त्रयाणामपि देवानामनुकारानुरूपिणी ॥ १० ॥ जटाजूटसमायु(क्तं ? क्तां) मध्य न्दुकृतलक्ष(णम् ? णाम)। लोचनत्रयसंयुक्ता पद्मेन्दुसदृशान(नम् ? नाम् )॥११०॥ अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् । नवयौवनसंयुक्तां सर्वाभरणभूषिताम् ॥ १११ ॥ सुचारुवदनां तद्वत् पीनोन्नतपयोधराम् । त्रिभङ्गस्थानसंस्थानां महिषासुरसूदनीम् ॥ ११२ ॥
शुभ्रेभद्वयपुष्करेरितघटश्च्योतविशुद्धोदकैः सायन्तीमतिहृद्यरूपविभवां नीलोल्लसत्कुन्तलाम् । शुभ्राकल्पविशेषविभ्रमरसामुत्तप्तहेमप्रभा
घन्दे बाहुयुगप्रसक्तकमला देवी सरोजासनाम् ॥ इति शिल्परत्नीयमेव पद्यान्तरम् ( उ० भा० अ० २४, श्लो० १०)।
१०७। कोलापुरादन्ये अन्यस्मिन् क्षेत्रे इत्यन्वयः। - १०९। कात्यायनीमूतिमाह-कात्यायन्या इति । प्रायेणाविकलं मत्स्यपुराणीयं दशभुजाध्यानमिदम् । (अ० २६०, श्लो० ५५-६५ ) विकलानि स्थानानि यथावसरं प्रदर्शयिष्यन्ते । त्रयाणामपीति, ब्रह्मविष्णुमहेश्वराणां प्रतीकरूपामित्यर्थः । 'अनुकारानुकारिणीम्' इति मात्स्ये।
११०। 'अर्धन्दुकृतशेखरामिति द्वितीयचरणे, 'पूर्णन्दुसदृशाननामिति चतुर्थचरणे मातस्यानुमतः पाठः।
१११। 'नवयौवनसम्पन्नामिति तृतीयचरणगतो मात्स्ये पाठः। ११२ । 'सुचारुदशनामिति प्रथमपादे 'महिषासुरमर्दिनीमिति चतुर्थपादे मात्स्यानुगतः
पाठः।
For Private And Personal Use Only