________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् पञ्चलीलया वक्षयामि शास्त्रभेदैस्तु भेदिताः। (१)लीलया ((२)लीलालीला )(३)लीलाङ्गी (४)ललिता च
(५)( लिल्ली )लावती ॥४३॥ तप्तकाञ्चनवर्णाभा बालसूर्यसमप्रभा। सुवक्ता च सुनेत्रा च ( स्य?स्व )रूपारूपदायिनी ॥४४॥ अक्षमाला तथा कुण्डी अधोहस्तेषु कारयेत्। द्वौ हस्ता( वि? वी ) दृशौ सर्वा(?) हस्तौ निगद्यते॥४५॥ मृणालयु(ग्मे ?ग्मैः) लीलया च लीला स्यात् पद्मपुस्तकैः। लीला(ग्नी ? गी) पाशपद्माभ्यां ललिता च (वजां ? वज्रा-)
कुशः॥४६॥ पाशाङ्कु(श ? शैः) लीलावती लीलया(:) पञ्च कीर्तिताः।
इति पञ्चलीलयाः । अस्यानन्तर(तं ? तो) व(क्षे ? क्ष्ये) नव दुर्गा(:)
शुभावहा()॥४७॥
४३ । इदानी पञ्चलीलया लक्षयति । पञ्चलीलया इति नवदुर्गादिवत् लीलयादिपञ्चकमित्यर्थः। रूपमण्डने संज्ञास्वरूपनिर्देशिका आद्या पधद्वयी नास्ति । विचिन्वन्तोऽपि वयं पञ्चलीलयालक्षणं समराङ्गणसूत्रधार-काश्यपशिल्पशिल्परत्नादिषु नोपलब्धवन्तः ।
४६। सर्वासामेवाधोहस्तेषु अक्षमाला कुण्डी चेति प्रहरणद्वयम् ; ऊर्द्धहस्तानां विशेषो वक्ष्यत इत्यर्थः। 'कुण्डी'त्यत्र 'अम्बुपात्रम्' इति रूपमण्डने पाठः। सर्वावद्ध हस्ताविति राश्यपेक्षया द्विवचनम् । 'निगद्यत' इति शैल्पं पदम् ।
४६। मृणालयुग्मैरिति हस्तयोर्युग्मं युग्मं मृणालमित्यर्थः, ‘पद्म युग्मे' इति रूपमण्डने पाठः। 'पद्मपुस्तकैरिति बहुवचनमविवक्षितम् , एवमुत्तरत्र । सर्वत्र विशेषणे तृतीया। ___४७। नवदुर्गा आह-अस्येति । रूपमण्डने महालक्षमीक्षेमङ्करी-हरसिद्धयस्तित्र एव लक्षिताः। एताः सर्वाश्चतुर्बाहवः । किमिति बाहव एव केवलं लक्षिता इति न लक्षयामः ।
For Private And Personal Use Only