SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३७ सप्तमोऽध्यायः श्यामा च श्यामवर्णा स्यानरारूढा चतुर्भुजा। वरं बाणाभयं चापं तस्या हस्तेषु च क्रमात् ॥ २६ ॥ [इति श्यामा ६] सुपार्वे नीलवर्णः स्यान्मा ( तङ्गे ? तङ्गो ) गजवाहनः । हस्तेषु (निल? शूलं)पाशं चाकुशं च नकुलं तथा ॥ ३०॥ [इति मातङ्गः ७] शान्ता [ भवेत् ] सुवर्णास्या गजारूढा चतुर्भुजा। वरदं चाक्षसूत्रं चाभयं तस्मात्तिशूलकम् ॥ ३१ ॥ [इति शान्ता ७ ] चन्द्रप्रभस्य विजयो त्रिनेत्रो हंसवाहनः । द्विभुजो नीलवर्णः स्याचक्रं च मुद्गरं कमात् ॥ ३२ ॥ [इति विजयः ८] भृकुटिः पीतवर्णा स्यात् सिंहारूढा चतुर्भुजा। खड्गं तथा मुद्गरञ्च परशुखेटकं कमात् ॥ ३३ ॥ - [इति भृकुटिः ८ ] अजितः पुष्पदन्तस्य कूर्मारूढ (:) सितो भवेत् । बीजपूराक्षसूत्रश्च कुन्तञ्च नकुलं क्रमात् ॥ ३४ ॥ [इत्यजितः, जयः ९] सुतारका श्वेतवर्णा वृषारूढा चतुर्भुजा। वरदं चाक्षसूत्रं चाशं च कलशं भवेत् ॥ ३५ ॥ [इति सुतारका ९] ३०। नकुलं वाद्ययन्त्रविशेषः । ३२ । 'त्रिनेत्र' इत्यत्र 'द्विनेत्र' इति पाठः श्रेयान् , द्विभुजमूतौ नेत्रत्रयस्य विरलदर्शनत्वात् । पूर्वपदे सन्धिजा विकृतिरप्येतदेव मतमनुकूलयति । ३३ । भृकुटिरित्युद्देशश्लोके (१४)। देवता-१८ For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy