________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् दुरितारिर्गौरवर्णा यक्षिणी महिषासना । वरदं चाक्षसूत्र(श्च? ञ्चा)भयञ्च बीजपूरकम् ॥ २३ ॥
__ [इति दुरितारिः ३] श्यामवर्णा ? णों) गजारू(ढा ? ढ) ईश्वर
- (श्वा ? श्वा)भिनन्दने । मातुलिङ्गाक्षसूत्रञ्च अङ्कुशं नकुलं तथा ॥ २४ ॥
[इति यक्षनायकः ४ ] कालिका श्यामवर्णा स्या(त्) पद्मारूढा चतुर्भुजा। वरं पाशाङ्कुशं नागं दक्षिणा( खश्र ? धश्च ) सृष्टितः ॥२५॥
[इति कालिका ४] ताःयस्थं (वरदं ? तुम्बर) श्वेतं सुमतौ तु चतुर्भुजम् । वरदं च तथा शक्तिनागपाशं गदा(धरे ? करे)॥ २६ ॥
[इति तुम्बरः ५] महाकाली (महे ? हेम )वर्णा पद्मारूढा चतुर्भुजा। वरदं नागपाशं चाकुशं स्याद् बीजपूरकम् ॥ २७॥
[इति महाकाली ५ ] (पद्मपन्नस्त्र ? पद्मनाभस्य) कुसु (मे ? मो)
नीलो हरिणवाहनः। बीजपूराभयं चैवाक्षसूत्रं नकुलं तथा ॥ २८॥
- [इति कुसुमः ६ ] २४। ईश्वर इति यक्षनायक इत्यर्थः ।
२६। दक्षिणाधश्च सृष्टित इति सृष्टिक्रमेण अनुलोमेनेत्यर्थः। दक्षिणाधश्च इति दक्षिणयोईस्तयोरधःक्रमेण ।
२८। यद्यपि 'पद्मपन्नस्र' इत्यत्र 'पद्मप्रभस्य' इत्येव शुद्धिः स्वाभाविको पमप्रभा नामान्सरमित्युक्तम् , तथाऽपि मूले तथाविधुपाठानुपलम्भावियं शुद्धिरस्माभिः कृता। .
For Private And Personal Use Only