________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम्
[प्रणालदिनियमः ] पूर्वापरे यदा दारं प्रणालं चोत्तरे शुभम् । प्रशस्तं सर्वदेवानामिति शास्त्रार्थनिश्चयः॥१२७॥
[ पिण्डिकाया लक्षणम् ] लिङ्गायामपृथुक्लृप्तं पिण्डिकानान्तु लक्षणम् । (आ?तत्रा)दौ ब्रह्मविष्णोश्च पिण्डिकाना(मुपध्य?)विदुः।
[तस्याः स्वजातिकर्तव्यत्वम् ] जात्यैकया विधातव्यं नेष्टमन्योन्यसंकरम् ॥ १२८ ॥
[तत्र मतान्तरम् ] आहुः शैलेष्टमेकेचित् पीठं पक्केष्टकाम(दम् श्यम् )।
[पीठानां सन्धिस्थानम् ] उपर्युपरि पीठानां सन्धिरङ्गावसानके ॥ १२६ ॥
[नालमध्ये कर्णसन्धेनिषेधः] नालस्य मध्यमध्ये च कर्णसन्धि न सन्धयेत् ।
[प्रणालभागकथनम् ] प्रणालन्तु त्रिभागेण तत्तुल्यं चा(ग्राग्रम)धकम् ॥ १३० ॥ त्रिधा विभक्तमग्रे तु मध्ये सजलमा(ग ? गै)तः। कन्दे तु पादमेकैकं मध्यवंशोद्भवाकृ(ती? ति)॥ १३१॥
[मेखला] पृथुपीठ(स्तुनांगुणां)शेन मे(षाखोला श्रवणाकृतिः।
[खातविधानम् ] मेखला (च?) त्रिभागेण खातं कुर्यात्तथा परम् ॥ १३२ ॥ १२७। यस्य देवालयस्य पूर्वल्यामपरस्यां वा दिशि द्वारं वर्तते तत्र उत्तरस्यां दिशि प्रणालः कर्तव्यः। प्रणालो जलनिःसरणमार्गः ।
१३२ । इदानी पीठिकामाह-मेखलेति। पञ्चश्लोकीयं क्वचिद् विकृतपाठा क्वचिदन्तविच्छिन्ने ति व्याख्यानायोग्या ।
For Private And Personal Use Only