SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः [ बाणलिङ्गपरीक्षा] त्रिपञ्च(नारंवारं) यस्यैव तुलासाम्यं (जनायते?न जायते) तदा बाणं समाख्यातं शेषं पाषाणसम्भवम् ॥ १०४ ॥ [धर्मबाणलिङ्गानि ] स्थूलं वरञ्च दीर्घश्च (स्फटिकं ? स्फुटितं) (छिन्नछिद्र)संयुतम् । बिन्दुयुक्तञ्च शूलाग्रं कृष्णञ्च (विचि)पिटं तथा ॥ १०५ ॥ (वक्तवक्र)ञ्च मध्यहीनञ्च बहुवर्णश्च यद् भवेत् । वर्जयेन्मतिमाल्लिङ्गं सर्वदोषकरं यतः॥ १०६॥ . [क्वचित् पाषाणस्यापि पूज्यत्वम् ] महानदीसमुद्भूतं सिद्धक्षेत्रादिसम्भवम् । पाषाणं परया भक्त्या लिङ्गवत् पूजयेत् सदा ॥ १०७॥ [यथातथावस्थितस्यापि बाणस्य प्राशस्त्यम् ] पुष्पपीठमपीठं वा मन्त्रसंस्कारवर्जितम् । भुक्तिमुक्तिकरं बाणं सर्वप्रासादपीठकम् ॥ १०८ ॥ [भोगदवाणलक्षणम् ] ऊर्द्धस्थूलं कृशं चाधो यदा लिङ्गं निवेशयेत् । तदा भोगं विजानीयात् पुत्रपौत्रा?त्र)श्च वर्धते ॥१०॥ १०४ । बाणलिङ्गपरीक्षामाह-त्रिपञ्चवारमिति। यस्यैवेत्येवकारो भिन्नक्रमे। यस्य त्रिपञ्चवारं पञ्चदशवारम् एव तुलासाम्यं न जायते प्रतिवारमेव मानं भिद्यते इत्यर्थः, तदा बाणं बाणलिङ्ग समाख्यातं कथितं मुनिभिरिति शेषः ; 'अमेयः खलु भगवानिति भावः। १०७। महानदीति । रूपमण्डने (अ० ४, श्लो० ७८) 'ग्रन्थान्तरे' इत्युपक्रम्यायं श्लोकः पठितः। लिङ्गवदिति बाणवदित्यर्थः, तस्यैव प्रस्तावात्।। १०८। पुष्पपीठमिति। प्राणतोषणीतवीरमित्रोदयेऽयं श्लोकः 'पुष्पपीठ'मित्यत्र 'तत् सपीठ'मिति, भुक्तिमुक्तिकरमित्यत्र ‘सिद्धिमुक्तिप्रद'मिति 'पीठक'मित्यत्र 'पीठग'मिति च विपरिवर्त्तनेनोपलभ्यते । एवमन्यान्यपि लक्षणानि पौराणिकान्येवेति द्रष्टव्यम् । देवता-२६ For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy