________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
देवतामूर्त्तिप्रकरणम्
विकारांशे तदायामे भूत (भङ्गानि ? वेदाग्नि) विस्तरम् ।
( नयदं ? जयदं) पौष्टिकं सार्धकामकं नागरे विदुः ॥ ८६॥
[ द्राविडलिङ्गानि ]
गर्भे (त्रिसुप्रभागं त्रिः सप्तभागे) तु दशां (श? शो) द्राविडेऽधमः । (च्या? वयो) दशांश (के? कं) श्रेष्ठ (गर्भे ? मध्ये ) ऽष्टांशेन पूर्ववत् ॥८७॥ त्रिःसप्तांशे निजायामे षट्पञ्चचतुरं ( शतम् ?शकम् ) । जयदा ( fr?दि) विशालं तु पूर्ववद् द्राविडे मतम् ॥८८॥
इति । काभ्यपशिल्पे पुनर्द्वारमानेनेयं कल्पना, परं तत्र नागरादिसंज्ञा नास्ति । । तत्र द्वारमानमभिधाय -
तथाच
अधमोत्तमयोर्मध्ये वसुभागविभाजिते ।
वासको द्वार ( मानं ? मानाद ) विधीयते ॥
इत्युक्तम् । एतत् चित्रम्, सर्वत्रैव मध्यमष्टभिर्विभज्य नव लिङ्गानि विहितानि परं कथं तथाविधे भागे लिङ्गकोत्पत्तिर्भवेदिति शिल्पिन एव कल्पयितुं प्रभवेयुः ।
८६ | नागरलिङ्गस्य विस्तारक्रमेण नामान्याह - विकारांश इति । तदायामे लिङ्गायामे विकारांशे जयर्द पौष्टिक सार्धकामकञ्च लिङ्गं यथाक्रमं भूतवेदाग्निविस्तरं पञ्चचतुस्त्र्यं विशालं विदुः । पञ्चांशविस्तृतं जयदम्, चतुरंशविस्तृतं पौष्टिकम्, त्र्यंशविस्तृतं सार्द्धकामम् इति निष्कर्षः । शिल्परले ( उ० भा० अ० २, श्लो० ६३ ) पुनः 'सार्वकामिकमिति तृतीयं नाम द्राविडे प्रासादे एषां स्थानञ्चोक्तम् ।
For Private And Personal Use Only
अत्र विकारपदेन षोडश प्रकृतिविकारा उच्यन्ते, काभ्यपशिल्पे
अथोद कलांशे तु पञ्चांशं स्वस्तिकं भवेत् ।
aaii पौष्टिक ख्यातं गुणांशं जयदं भवेत् ॥ ( अ० ४९, लो० ९१ ) इति यथोक्तांशस्य कलाशब्देनोल्लेखात् । अत्रापि नाम्नां भेदः पौर्वापर्यविपर्ययश्व द्रष्टव्यौ । ८७ । द्राविडप्रासादे लिङ्गायामविस्तारौ वक्तुमंशविभागमाह – गर्भ इति । द्राविडे प्रासादे त्रिःसप्तभागे एकविंशतिभागे कृते दशांशोऽधमः त्रयोदशांशकं श्रेष्टं भवति । मध्येऽष्टांशेनेति पूर्ववत् नागरे इव तयोर्मध्ये अष्टांशेन विभक्ते नवलिङ्गानि भवन्तीत्यर्थः ।
८८ । सम्प्रति विस्तारमाह - त्रिःसप्तांश इति । निजायाम इति लिङ्गदैध्यें । षट्पञ्चचतुरंशकं विशालं विस्तारं कुर्यादिति शेषः । जयदादीति क्रमेण तेषामंशानां पूर्ववत् जयदादिसंज्ञा स्यादित्यर्थः ।