________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
देवतामूर्तिप्रकरणम्
[ लिङ्गविस्तारः] मृदारुलोहशै(लं वालानां) दैर्घ्य
भक्ते (दिनांशकेजिनांशकः)। कुर्यात् षट्सार्धसप्तांशनवांशे विस्त(र?रं) क्रमात् ॥८॥ (विषकविष्कम्भ) नव(नागं?भाग) तु सार्द्धमष्ट पितामहः । नारायणोऽष्टभिर्जे (यो?यः ) सप्तसाधु महेश्वरः ॥२॥
८१.८२। इदानी लिङ्गस्य विस्तारं ब्रह्मादिभागविभागञ्च युग्मकेनाऽऽह-मृद्दाविति । मृदादिलिङ्गानां देध्यं जिनांशकैश्चतुर्विंशत्येत्यर्थः, भक्ते षट्सार्धादिना विस्तरं कुर्यादित्यर्थः। यद्वा विष्कम्भनवभागं गर्भगेहविष्कम्भस्य नवमांशमितं विस्तरं कुर्यादित्यर्थः। अनोद्दिष्टानां मृदादीनां चतुणी षट्सार्धेत्यादिभिश्चतुभिरनुद्देशाद् यथासंख्येनान्वयो बोध्यः। विषमफलमपि तुल्यप्रकारं विभागवचनं शिल्परने
आयामे दलिते दिवाकरयुजाऽभीष्टेऽष्टभिर्विस्तृतिः
*
*
पञ्चाशैरपि गर्भगेहनवमांशेनापि सा स्मर्यते ॥
(उ० अ० २, श्लो० ६७)। ब्रह्मादिभागमाह-सार्द्धमष्टेति। अत्रापि जिनांशकैर्भक्ते इत्येव । सप्तसार्द्धमिति सार्द्धसप्तेत्यर्थः। अनापि फलविसंवाद्यपि संवादि प्रमाणं तत्रैव
लिङ्ग सर्वसमं समोन्मितिविभक्तांशत्रयं तत् पुनः स्वायत्या सम-नाहकं यदि समांशं चाथ वृद्धात्तरम् । भक्ते भानुयुजोच्छ्रयेऽद्रि(७)वसु(८)नन्दा(९)शैस्तु मूलादिषपेतं दिग्दलिते त्रिलोकयुगसंख्यातैस्तथेशाधिकम् ॥
(शिल्प० उ० अ० २ श्लो० ६६) अस्यायमर्थः-लिङ्गस्य उच्छाये भानुयुजा रविद्वयेन चतुर्विंशत्येत्यर्थः, भक्ते क्रमेण अद्रिवसुनन्दांशैः सप्ताष्टनवभिरंशैमूलादिषु मूलमध्योप्रभागेषु उपेतं पूर्वार्धविशेषणविशिष्टं लिङ्गम् ईशाधिकं शिवभागाधिकं भवेदित्यर्थः । पक्षान्तरमाह-दिग्दलिते इति । दिशा दशभिर्दलिते विभाजिते उच्छाये इत्येव, त्रिलोकयुगसंख्यातः यथाक्रमं त्रिभिस्त्रिभिश्चतुर्भिश्नांशैम लादिषु उपेतम् ईशाधिकञ्च सत् लिङ्ग तथा पूर्वोक्तवदेव भवेदित्यर्थः ।
For Private And Personal Use Only