________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् देवदेवस्तु कर्त्तव्यस्तत्र सुप्तश्चतुर्भुजः । एकपादोऽस्य कर्त्तव्यः शेषभोगाङ्कसंस्थितः॥८७॥ एको भुजस्तु कर्त्तव्य(मति? स्तस्य)जानुप्रसा(धिरि)तः। कर्त्तव्यो नाभिदेशस्थस्तथा तस्यापरः करः॥८॥ तथैवान्यकरः कार्यो देवशत्रु(शरा ? शिरो)धरः। सन्तानमञ्जरीधारी तथा चैवापरो भवेत् ॥ ८ ॥ नाभीसर(ससि)सम्भूते कमले तस्य याद(वः ? व)। सर्वभूमिमयो देवः प्राक कार्यस्तु पितामहः। (नील ? नाल )लग्नौ च कर्त्तव्यौ पद्मस्य मधुकैटभौ ॥६॥
इति जलशायी। वैकुण्ठश्च प्रवक्ष्यामि (धृष्टासाष्ट)बाहुं महाबलम् । ताासनश्चतुर्वक्त कर्त्तव्यं शान्तिमिच्छता ॥११॥ गदाखड्गौ बाणच(क्रौ ? के) दक्षिणास्त्रचतुष्टयम् । शङ्खखेटधनुःपञ (वामदंष्ट्रावामे दद्याच)चतुष्टयम् ॥ १२ ॥ अग्रतः पुरुषाकारं नारसिंहश्च दक्षिणे। अपरं स्त्रीमुखाकारं वाराहास्यं तथोत्तरम् ॥१३॥
इति वैकुण्ठः । ९०। विष्णुधर्मोत्तरे (ख० ३, अ० ८१) पद्मनाभीयत्वेनेदं लक्षणमुपलभ्यते, 'यादव' इति तत्र बोद्धव्यस्य भगवतः सम्बोधनमिहाविकलमुद्भुितमिति ज्ञातव्यम् । ९१ । शान्तिमिच्छता कर्तव्यमष्टबाहु वैकुण्ठं प्रवक्ष्यामीत्यन्धयो व्याकरणसंस्कारायातः ।
'वैकुण्ठञ्च प्रवक्ष्यामि सोऽष्टबाहुर्महाबलः । ताासनश्चतुर्वक्तः कर्तव्यः शान्तिमिच्छता ॥'
___ इति रूपमण्डने (३ अ० ५२ श्लो०)। ९३ । अग्रत इति । एतच्च वैकुण्ठस्य चतुर्णामाननानां विवरणम् । तत्र अग्रत इति अग्रवर्ति मुखं पुरुषाकारं पुरुषमुखतुल्यम् , दक्षिणं मुख नारसिंह नरसिंहमुखतुल्यं सिंहास्यवदिति यावत, नरसिंहलक्षणे 'रौद्रसिंहमुखक्षणाम्' (७७ श्लो०) इत्युक्तेः। अपरमिति पश्चान्मुखमित्यर्थः। वाराहास्यमिति शूक राननम् ।।
For Private And Personal Use Only