________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः
[प्रकारान्तरम् ] आसीनं द्विभुजं देवं प्रसन्नवदनेक्षणम् । श्वेतं स्फटिकसङ्काशं चतुर्बाहुमथापि वा ॥३॥ आजानुलम्बितौ बाहू कर्त्तव्यौ तत्र दक्षिणे। समीपे कल्पयेच्चक्रं वामे शेषं समीपतः ॥८४॥ ऊर्ध्वस्थिताभ्यां बाहुभ्यां दक्षिणे पङ्कजं न्यसेत् । वामे बाहौ गदा रम्या(लिनात् प्र ? लिखेञ्चित्र)
विशार(दैः? दः)॥८५॥
इति नरसिंहः। जलमध्यगतः कार्यः शेषः पन्नगदर्शनः।।
फणाम्बुजमहारत्न... शिरो(धृतः ? धरः) ॥८६॥ इति शिल्परत्ने (उत्तर० २५ अ० १२० श्लो० ) पाठः। पुराणे तु वर्णकान्त्यादिविषये किमपि मोक्तम् । विशेषतस्तु तत्राऽऽनुषङ्गिक मूर्त्यन्तरमपि कल्पितं दृश्यते। तथा च मात्स्ये
नारसिंहन्तु कर्तव्यं भुजाष्टकसमन्वितम् ॥ रौद्रं सिंहा(सनं १ ननं ) तदधद्विदारितमुखेक्षणम् । स्पधपीनसटाकर्ण दारयन्त दितेः सुतम् ॥ विनिर्गतान्त्रजालञ्च दामवं परिकल्पयेत् । (मसन्तं ? मषन्त ) रुधिरं घोरं भृकुटीवदनेक्षणम् ॥ युध्यमानश्च कर्तव्यः क्वचित् करणबन्धनैः। परिश्रान्तेन दैत्येन तय॑मानो मुहुर्मुहुः ।। दैत्यं प्रदर्शयेत्तत्र खड्गखेटकधारिणम् । स्तूयमानं तथा विष्णु दर्शयेदमराधिपैः ॥ इति
(२६० अ० ३१-३५ श्लो०)। ८३-८५ । विशेष्यानुले खात् कस्य लक्षिकेयं श्लोकत्रयीति न प्रतिपद्यामहे। नेयं नरसिंहलक्षणत्वेनोपलभ्यते शिल्परत्ने। लिखेच्चित्रविशारद इत्यत्र वाक्यार्थः कर्म । ___८६। अयं पूर्व( ७५ श्लो० )लक्षिताच्छेषाद्विशिष्यते। अत एव पन्नगदर्शन इत्युक्तम् । पन्नगदर्शन इति सर्पाकृतिरित्यर्थः। जलमध्यगतत्वेनाप्ययं विशिष्यते। 'फणाम्बुजमहारत्ने'त्यनन्तरं 'दुनिरीक्षेति पतितं स्यात् , विष्णुधर्मोत्तरे ( ३य-खण्ड० ) तथा पाठः ।
For Private And Personal Use Only