SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः कृष्णाजिनोपवीतः स्याच्छत्री (कृत ? धृत)कमण्डलुः। कुण्डली शिखया युक्तः कुब्जाकारो मनोहरः॥७१॥ इति वामनः । रामस्तु द्विभुजो रम्यः शरचापधरः प्रभुः।। इति रामः। (महा ? नृ)वराहं प्रवक्ष्यामि शूकरास्येन शोभनम् । गदापद्मधरं धात्री दंष्ट्राग्रेण समुद्धताम् ॥७२॥ बिधारणा ? णं) कूप रे वामे विस्मयोत्फुल्ललोचनः । नीलोत्पलधरां देवीमुपरिष्टात् प्रकल्पयेत् ॥ ७३ ॥ दक्षिणं कटिसंस्थश्च बाहुं तस्य प्रकल्पयेत्। कूर्मपृष्ट पदश्चैकमन्यन्नागेन्द्रमूर्धनि ॥७४ ॥ शेषश्चतुर्भुजः कार्यस्तथैव रचिताञ्जलिः। कर्त्तव्यौ (शिल ? शीर)मुषलौ करयोस्तस्य चोर्ध्वयोः ॥७॥ ७५ । शेष इति । 'रचिताञ्जलिरि'त्यनेन नेदं स्वतन्त्रस्य शेषस्य लक्षणमपि तु नृवराहाङ्गतया तदा कर्तव्यस्येत्यायाति। अन्यथा नृवराहलक्षणमभिधायान्तरा शेष लक्षयतः पुन वराहप्रकारान्तरकथनमनुपपन्नं स्यात् । शिल्परत्ने शेषलक्षणमपहायैव नृवराहस्य लक्षणद्वितयं लिखितं दृश्यते (शिल्प० उ० २५ अ० ११२-११६ श्लो०)। मत्स्यपुराणे पुनः किञ्चिदविलक्षणमेव नृवराहलक्षणमिति तदत्र प्रदर्श्यते महावराहं वक्ष्यामि पद्महस्तं गदाधरम् ॥ तीक्ष्णदंष्ट्राग्रघोणास्यं मेदिनीवामकूपरम् । दंष्ट्राग्र णोद्धृतां दान्तां धरणीमुत्पलान्विताम् ॥ विस्मयोत्फुल्लनयनामुपरिष्टात् प्रकल्पयेत् । दक्षिणं कटि(हस्त ? संस्थ)ञ्च कर तस्याः प्रकल्पयेत् ॥ कूर्मोपरि तथा पादमेकं नागेन्द्रमूर्धनि । संस्तूयमानं लोकेशैः समन्तात् परिकल्पयेत् ॥ इति । (मत्स्य० २६० अ० २८-३१ श्लो०)। देवता-१२ For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy