SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir དང་ देवतामूर्तिप्रकरणम् गृध्रोरुजानुचरणः पक्षद्वयविभूषितः । प्रभासंस्थानसौवर्णः कलापेन विवर्जितः ॥६५॥ नवतालः प्रकर्त्तव्यो गरुडो मानसूत्रतः। पाद(?)जानु कटि(?) यावदर्चायां वाहनस्य दृक ॥६६॥ छत्रञ्च कुम्भपूर्णञ्च करयोस्तस्य कारयेत् । करद्वयन्तु कर्त्तव्यं तथा विरचिताञ्जलि ॥ ६७॥ यदुश्च भगवान् पृष्ठ छत्रकुम्भधरौ (हरौ ? करौ)। किञ्चिल्लम्बोदरः कार्यः सर्वाभरणभूषितः॥ ६८॥ इति पन्नगाशनः । अष्टबाहोर्हरेमर्त्तरायुधानि वदाम्यहम् । नन्दकश्च गदा बाणः पद्मं दक्षिणबाहुषु । शको धनुस्तथा चक्रं खेटकं वामवाहुषु ॥६६॥ त्रिविक्रमो नृसिंहश्च दशतालौ प्रकीर्तितौ। वामनः सप्ततालस्तु विप्रमूर्तिः क्वचिद् भवेत् ॥ ७० ॥ ६५। प्रभासंस्थानसौवर्ण इति प्रभासंस्थानाभ्यां कान्तिशरीराभ्यां सौवर्णः सुवर्णमय इव प्रतिभासमानः। 'कलापेन विवर्जित' इत्यत्र 'कलापेन विभूषित' इति रूपमण्डने (३।४७) पाठः । यद्यपि 'कलापो भूषणे बह' इति कोषान्मयूरपिच्छ एव कलापशब्दो वर्त्तते तथाऽपि पक्षमात्रार्थ एवात्र प्रयुक्तः। भूपणार्थस्तु न प्रसज्यते। 'विवर्जितः' 'विभूषितः' इत्यनयोः कतरच्छिष्यते इति नावधारयामः । ६६। द्विधेह वाहनानि विविच्यन्ते, एक स्थितायाः प्रतिमायाः, अपग्मुपविष्टायाः । द्वितीयमपि पुनर्बंधा भिद्यते, एकमेकस्मिन्नेव पावें लम्बितवरणायाः, द्वितीयञ्चोभयोरेव पार्श्वयोर्लम्बितचरणायाः । सङ्कलनेन पुनस्त्रीण्येव वाहनानीति । तत्र स्थिताया अळया वाहनस्व दृष्टिः पादं यावत् , एकपावलम्बितचरणाया जानु यावत् , उभयतो लम्बित वरणायाः कटिं यावदिति विवेकः । तदेतदाह ग्रन्थकारः पादमिति। अत्र पादपदेन गुम्फपर्यन्तो भागो लक्ष्यते विभागसामर्थ्यात् । ६७। 'कुम्भपूर्णञ्चे'त्यत्र 'पूर्णकुम्भञ्चे'त्युचितः पाठो रूपमण्डने । ६८। यदुश्च भगवान् इति यदुवंशीयो भगवान श्रीकृष्ण इत्यर्थः। ___ 'यादवो भगवान् पृष्ठे छन्नकुम्भधरो हरिः' इति रूपमण्डने विसंष्टुलः पाठः । ७०। अत्र मत्स्य पुराणम् दशतालः स्मृतो रामो बलिवैरोचनिस्तथा । बाराहो नरसिंहश्च सप्ततालस्तु वामनः ॥ इति (२५९ अ० १-२ श्लो०) For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy