________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चतुर्थोऽध्यायः
अक्षसूत्रं पुस्तकञ्च श्रुतिश्चैव कमण्डलुः । विरिञ्चि ( ? )श्च भवेन्मूत्तिः कृते स्यात् सुखदायिनी ॥ ५ ॥
इति विरिञ्चिः ।
कमण्डलुश्चाक्षसूत्रं शुचिर्वे पुस्तकं तथा । पितामहस्य स्यान्मूर्त्तिस्त्रेतायां सुखदायिनी ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पुस्तकं चाक्षसूलञ्च शुचिश्चैव कमण्डलुः । ब्रह्मणश्च भवेन्मूर्त्तिः कृते स्यात् सुखदायिनी ॥ ७ ॥
इति ब्रह्मा ।
अक्षसूत्रं पुस्तकञ्च धत्ते पद्म कमण्डलुम् । चतुर्वक्ता तु सावित्री श्रोत्रियाणां गृहे स्थिता ॥ ८ ॥
इति सावित्री ।
इति पितामहः ।
ऋग्वेदः श्वेतवर्णः स्याद् द्विभुजो रासभाननः । अक्षमालाम्बुपावे चपि ( श्रि ?) तश्चाध्ययने रतः ॥ ६ ॥
इति ऋग्वेदः । अजास्य (: १) पीतवर्णः स्याद् यजुर्वेदोऽक्षसूत्रधृक । वामे चाङ्कशपाणिस्तु भूतिदो मङ्गलप्रदः ॥ १० ॥
इति यजुर्वेदः ।
'जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥ '
इत्युक्तलक्षणानां वेदविदाम् ।
९। अक्षमालेत्यादि । अक्षमालाम् अम्बुपात्रश्च श्रित इत्यर्थः ।
६१
५। विरिञ्चिमाह - अक्षसूत्रमिति । श्रुतिर्वेदः, इतरत्र लक्षणन्त्रये 'शुचि'रिति पाठो तत्रापि 'श्रुतिरिति भवेन्न वेति विचारणीयम् । शुचिरनिः । कृते सत्ययुगे । इहान्यत्र ब्रह्मणो लक्षणद्वये अक्षसूत्रादिप्रथमान्तपदानामन्वयो दुरुपपाद एव । दुःखञ्च - अक्षसूत्रादीनामुद्देशपरतामाश्रस्वीकारेण तत्तदुविशिष्टा मूर्त्तिरित्यध्याहारजन्यम् ।
८। श्रोत्रियाणामिति —
For Private And Personal Use Only