________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् तस्य चतुर्बाहुत्वे चतुर्मुखत्वे च हेतुप्रदर्शनपूर्वकं स्वरूपमाह-ऋग्वेदादीति। ऋगादयश्चत्वारो वेदाः कृतादयश्चत्वारि युगानि ; ब्राह्मणादयश्चत्वारो वर्णाश्चेति यथासम्भवं तत्स्मर्तृत्वतत्कर्तत्वादिरूपेण ब्रह्मणोऽपि चत्वारि मुखानि चत्वारो बाहवश्वेत्यर्थः। तत्र कृतं सत्ययुगम् ; को दक्षे इति दक्षाधःकरे, उद्धत इति दक्षोद्धतः, एवं वामेऽपि। द्वितीयकमलासनपदं विशेषणपरम् । मत्स्यपुराणे
ब्रह्मा कमण्डलुधरः कर्त्तव्यः स चतुर्मुखः । हंसारूढः क्वचित् कार्यः क्वचिच्च कमलासनः ॥ वर्णतः पद्मगर्भाभश्चतुर्बाहुः शुभेक्षणः । कमण्डलु वामको स्रुवं हस्ते तु दक्षिणे॥ वामे दण्डधरं तद्वत् सुवञ्चापि प्रदर्शयेत् । मुनिभिर्देषगन्धर्वैः स्तूयमानं समन्ततः ॥ कुर्वाणमिव लोकांस्त्रीन् शुक्लाम्बरधरं विभुम् । मृगचर्मधरञ्चापि दिव्ययज्ञोपवीतिनम् ॥ आज्यस्थाली न्यसेत् पाश्वें वेदांश्च चतुरः पुनः । वामपाश्र्वेऽस्य सावित्री दक्षिणे च सरस्वतीम् ॥ अग्रे च ऋषयस्तद्वत् कार्याः पैतामहे पदे । इति ।
(अ० २६०, ४०-४५ श्लो०)
समराङ्गणसूत्रधारे च
ब्रह्मानलार्चिप्रतिमः कर्त्तव्यः सुमहाद्युतिः ॥ स्थलाङ्गः श्वेतपुष्पश्च श्वेतवेष्टनवेष्टितः । कृष्णाजिनोत्तरीयश्च श्वेतघासाश्चतुर्मुखः ॥ दण्डः कमण्डलुश्चास्य कर्तव्यो वामहस्तयोः । अक्षसूत्रधरस्त(द्वा ? द्वद) मौज्या मेखलया वृतः ॥ इति ।
(अ० ७७, २-४ श्लो०) शिल्परत्नोत्तरभागेऽपि (अ० २६, १२३-१२७ श्लो०) प्रायेणैवमेव ब्रह्मणो लक्षणमुल्लिखितम् । परं प्रकृतग्रन्थ इव कुत्रापि ब्राह्मणश्चतुर्भेदभिन्नत्वं न दृश्यते। कमलासनः कस्मिन् युगे सुखदायक इति नोपलभ्यते। विरिञ्चिब्रह्माणौ कृते सुखदायको, पितामहस्त्रेतायाम् । तत्र पारिशेप्याद् भवतु कमलासनः कलौ वा द्वापरे वा, न तेनैकेन युगद्वयवर्तिनां जनानां सुखं शक्यसम्पादनमिति सुधीभिश्चिन्तनीयम् ।
For Private And Personal Use Only