SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रथमोऽध्यायः बिन्दुपातस्य रेखापातस्य च नियमः शून्ये तु विन्दवश्चाष्टौ रेखैके रसबिन्दवः । चत्वारो बन्दवो युग्मे द्विबिन्दू रामरेखके ॥ ३ ॥ समरेखाचतुर्थे तु पञ्च नेत्ररेखके | परेखास चतू रेखाः सप्तमे रसरेखिकाः ॥ ४ ॥ इत्थं रेखाबिन्दुपातेन फलं विचार्यम् । पूर्वोक्तप्रकारेण द्विगुणितरेखासमष्टिकादष्टौ वियोजयेत् । तेन शून्येऽवशिष्टे बिन्द्वष्टकं रक्षेत् । एकरेखायामवशिष्टायां बिन्दुषट्कम्, रेखाद्वये विन्दुचतुष्टयम्, रेखानये बिन्दुद्वयं रक्षेत्; रेखाचतुष्टये स्थिते समो भवेत् ; रेखापञ्चके रेखाद्वयम्, रेखापट्के रेखाचतुष्टयम्, रेखासप्तके रेखाट्कं भवेत् । रेखाभिस्तु शुभं ज्ञेयं बिन्दुभिरशुभं फलम् । यत्र रेखा न बिन्दुश्च तत् समं परिकीर्तितम् ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir रेखायोगेण बिन्दुयोगेन वा ग्रहाणां फलम् स्वोच्च मित्रादिवर्गस्थाः केन्द्रादिवलसंयुताः । अनिष्टफलदाः सर्वे स्वल्पबिन्दुयुता यदि ॥ ६ ॥ दुष्टस्थानस्थिता ये च ये च नीचारिभांशगाः । सर्व शुभदा नित्यमधिबिन्दुयुता यदि ॥ ७ ॥ दिनेशमुख्यग्रहवर्गकेषु यदा शनिः शून्यगृहं प्रयातः । करोति पित्रादिकभावजानामतीव रोगारिभयाकुलानि ॥ ८ ॥ ३६ एतेषामर्थ :- उच्चस्थो मित्रादिवर्गगतः केन्द्रादिस्थो वा बलवान् ग्रहो एकादिस्वल्प बिन्दुयुक्तरा शिस्थ एकादिस्वल्परेखायुक्तराशिस्थो वा चेदनिष्टफलप्रदः । usifaदुःस्थानस्थो नीचराशिनवांशस्थः शत्रुक्षेत्र नवांशस्थो वा नितरां दुर्बलोऽपि ग्रहः बिन्दुयुक्तराशिस्थो रेखायुक्तराशिस्थो वाचेत् शुभफलप्रदः । For Private And Personal Use Only वर्गाष्टकचक्रे व्यादिग्रहाणामष्टवर्गे रेखाहीनेऽष्टशून्ययुक्ते वा राशौ शनिर्गोचरवृत्त्या गतश्चेत् तद्वाशिनिर्दिष्टभावफलस्यानिष्टम्, रोगम्, शत्रुवृद्धिम्, तथा भयाकुलत्वादिकम्, तद्भावनिर्दिष्टञ्च पितृभ्रात्रादीनामपि तद्रूपमशुभं परिकल्पयेत् । अष्टवर्गं व्यादिग्रहाणां विशेषफलं ग्रन्थबाहुल्यभयादिह परित्यक्तं ज्योतिषग्रन्थे तदनुसन्धेयम् ।
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy