SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् [तन्त्र विशेषः] दशादिकरवृद्धया च षट्त्रिंशत्प्रतिमाः पृथक् । वाणवेदकरान् यावच्चतुःषष्ट्यां(च्चतुष्क्यां?)पूजयेत् सुधीः॥१६॥ [देवगृहभित्त्यादिनिर्णयः ] चतुरस्त्रीकृते क्षेत्रे दशधा प्रविभाजिते । चतुर्भागे भवेद् भित्तिः शेषं गर्भगृहं स्मृतम् ॥२०॥ स्यादन्यथा नवहस्तप्रतिमाविषये किमपि विधानं न स्यात्तेन च ग्रन्थकतो न्यूनता प्रसज्येत । यथाश्रुतार्थपरिग्रहपक्षे तु पूर्वोक्तमत्स्यपुराणवचनव्याकोपो मतान्सरवादेन प्रतिसमाधेय इति दिक् । १९। दशहस्तादिप्रतिमानां पूजास्थानमाह-दशादीति। दशहस्तत आरभ्य वाणवेदकरान् पञ्चचत्वारिंशतं हस्तान् यावत् एकैककरवर्धनाजाताः पृथक् पत्रिंशतं प्रतिमाः चतुष्क्यां बहिश्चतुरस्रदेशे पुष्करिण्याकारनिर्जलचतुरस्रखाते वा पूजयेदित्यर्थः । तथा च दशहस्तैकादशहस्तद्वादशहस्तादिक्रमेण पञ्चचत्वारिंशद्वस्तां यावद् गृहादु बहिश्चतुरस्रप्रदेशे पूजयेत् । भवति च दशहस्तां प्रतिमां मेरुत्वेन कल्पयतः पञ्चचत्वारिंशद्धस्ता प्रतिमा षट्त्रिंशी।। एताश्च पञ्चचत्वारिंशद्वस्तान्ताः प्रतिमाः पूर्ववज्ज्यैप्ठ्यादिकं भजन्ते । तथा हि-निरुक्तप्रमाणाः प्रतिमाः ज्येष्ठाः, स्वमानस्य तृतीयभागोना मध्यमा अझैनाश्च कनिष्ठा इति। तदेतत् सविशेषमाह समराङ्गणसूत्रधारे आकाशे (१) प्रतिमा (येष्टा ? ज्येष्ठा) चत्वारिंशच पञ्च च । हस्तान कार्या विभागोना मध्या हीना तदर्द्धतः ।। (अ० ७० १४५-१४६ श्लो०) इति । इत ऊर्दू प्रतिमाया विधानं नास्तीति इयमेव वृहत्तरा प्रतिमा । बृहत्संहितायां चतुर्हस्तावधिकप्रतिमाया एव शुभदायकत्वमुक्तम् सौम्या तु हस्तमात्रा वसुदा हस्तद्वयोच्छ्रिता प्रतिमा । क्षेमसुभिक्षाय भवेत्तिचतुर्हस्तप्रमाणा या ॥ इति । (अ० ५७, ४९ श्लो० ) अनादर्श चतुःषष्ट्यामिति प्रामादिकः पाठः, छन्दोभङ्गन्दोषादर्थासङ्गन्तेश्च । अस्ति च समानतन्त्रे ग्रन्थकृतः कृतौ रूपमण्डने प्रायेणैतत्समानानुपूर्वीकः श्लोकः, तत्र च 'चतुष्काम्' इति पाठ उपलभ्यते । छन्दःशुद्धोऽप्ययं पाठोऽपपाठ एव मन्यतेऽर्थदारिद्रयात्, तस्मात् पूर्वदर्शितसमराङ्गणसूत्रधारवचनैकार्थ्यात् रूपमण्डनीयचतुष्कशब्देन साभ्यबाहुल्याच प्राङ्गणादिसमानार्थकं 'चतुष्क्याम्' इति पदं शुद्धपाठत्वेन कल्पितमस्माभिरिति ज्ञेयम् । २०। इदानी गर्भगृहप्रमाणेन प्रतिमापरिमाणं वक्तुमादौ गर्भगृहप्रमाणमाह-चतुरस्रीकृत्त इति। अन्यथैव भित्त्यादिविधानमाह बृहत्संहितायाम् , तच्च पूर्व प्रदर्शितम् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy