SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः [ गृहपूज्यायाः प्रतिमायाः परिमाणम् ] आरभ्यकाङ्गलादूद्ध पर्यन्त द्वादशाङ्गुलम् । गृहेषु प्रतिमा पूज्या नाधिका शस्यते ततः ॥१७॥ [देवगृहोचितप्रतिमापरिमाणम् ] तदुन्निवहस्तान्ता पूजनीया मुरालये। [बहिरर्चनीयप्रतिमापरिमाणम् ] दशहस्तादितो याऽर्चा प्रासादेन विनाऽर्चयेत् ॥१८॥ १७। इदानीं कुत्र कीदृशी प्रतिमा पूजनीयेति वक्तुं प्रथमं गृहोचितायाः प्रतिमायाः परिमाणमाह-आरभ्येति । एकाङ्गलादारभ्य उच्छ्रायेण द्वादशाङ्गलपर्यन्ता प्रतिमा गृहेषु पूज्या । स्पष्टमुक्त मत्स्य पुराणे अङ्गुष्ठपर्वादारभ्य वितस्तिर्यावदेव तु । गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ॥ (अ० २५८, २२ श्लो०) इति । वितस्तिदिशाङ्गुलम् । ___ १८। देवालयपूज्यामाह तदुर्दादिति । द्वादशाङ्गुलतोऽष्टहस्तपरिमाणं यावत् प्रतिमा सुरालये पूजनीया। तथा च मात्स्ये 'आपोडशा तु प्रासादे कर्तव्या नाधिका ततः' इति। (अ० २५८ २३) 'आपोडशा' पोडश वितस्तिपर्यन्ता अष्टहस्तपर्यन्तति यावत्, प्रासाद इति देवालय इत्यर्थः । एतदेकवाक्यताविधित्सयैव 'नवहस्तान्ता' इत्यस्य नव हस्ताः परिमाणं यस्याः सा नवहस्ता, सा अन्ते यस्याः त्रयोदशाङ्गलाद्यष्टहस्तान्तायाः प्रतिमायाः सा तथेत्यतदगुणसंविज्ञानव्यधिकरणबहुव्रीहिणा तादृशोऽर्थः कष्टकल्पोऽपि युक्त इत्युत्पश्यामः । दशहस्तादित इति । दशहस्तायाः प्रतिमाया आदिरादिभूता प्रतिमा ताम् आरभ्य नवहस्तप्रतिमामारभ्येत्यर्थः, न तु दशहस्तप्रतिमामारभ्यति यथाश्रुतार्थः करणीयः, पूर्वोक्तमत्स्यपुराणवचनेन नवहस्तायाः प्रतिमाया अपि प्रासाद पूजननिषेधात्, सम्भवति च तद्वचनेम सहकवाक्यत्वे वाक्यभेदस्यान्याय्यत्वात् । इत्थञ्च-'दशादिकरवृद्धद्या च' (१९) इति वक्ष्यमाणवाक्येन दशहस्तप्रतिमामारभ्य पञ्चचत्वारिंशद्वस्तां यावच्चतुष्क्यां पूजनविधानादियमेकैव नवहस्ता प्रतिमा वर्त्तते, यस्याः पूजास्थानं किमपि नोपदिष्टं ग्रन्थकता। इदमन मनस्यापतति,-प्रासादेन विनाऽर्चयेदित्यनेन सामान्यत आसां दशहस्तादिप्रतिमानां प्रासादे पूजां निषिध्य क्क तीमाः पूजनीया इत्यपेक्षायां दशादिकरवृद्धप्रति विशेषोऽभिहितो ग्रन्थकतेति । अत्र च पक्ष 'नवहस्तान्ता' इत्यस्य 'दशहस्तादित' इत्यस्य च यथाश्रुत एवार्थः करणीयः For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy