________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः
[ द्वारमानेन ज्येष्टप्रतिमापरिमाणम् ]
arigrisgar कार्यो भागमेकं परित्यजेत् । सप्तभागं त्रिधा कृत्वा द्विभागा प्रतिमा भवेत् ॥ १५॥
१७
१५ । पूर्व प्रासादमानेन प्रतिमामानमभिहितम् इदानीं प्रासादद्वारमानेनापि तद्वक्तुं प्रथमं ज्येष्ठप्रतिमापरिमाणमाह-द्वारोच्छ्रय इति । आदौ द्वारस्योन्नत्यम् अष्टधा विभज्यैकमंशं परित्यज्यावशिष्टान् सप्तांशान् त्रिधा विभज्य द्विभागेन प्रतिमाः कुर्यात् । एकांशेन च पीठिकेत्यनुक्तमप्यत्रम् | तथा च वृहतसंहितायाम्
देवागाद्वारस्याष्टांशीनस्य यस्तृतीयोऽशः ।
पिण्डिकाप्रमाणं प्रतिमा तदद्विगुणपरिमाणा ॥ इति (अः ५७, ३ श्लो०) द्वारमानाष्टभागोना प्रतिमा स्यात् सपिण्डिका ।
द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पिण्डिका ॥ (अ: १५, १६ लो०)
इति च । अष्टशंशोनस्येति कृताष्टभागस्य द्वारमानस्याष्टमभागेन हीनस्येत्यर्थः । द्वारप्रमाणमाह तत्रैव प्रासादलक्षणमधिकृत्य -
यो विस्तारो भवेद्यस्य द्विगुणा तत्समुन्नतिः । उच्छ्रायादयस्तृतीयांशस्तेन तुल्या कटिः स्मृता ॥ विस्तारा भवेदु गर्भा भित्तयोऽन्याः समन्ततः ।
गर्भपादेन विस्तीर्णं द्वारं द्विगुणमुच्छ्रितम् ॥ (अ: ५५, १-२ श्लो०) इति । तथा च दशहस्तविस्तृते प्रासादे गर्भः पञ्चहस्तः गर्भस्य पादेन तुर्यशेन द्वारविस्तारो भवेदिति सपादहस्तप्रमाणा द्वारस्य विस्तृतिः उन्नतिश्च सार्द्धद्विहस्तपरिमाणा । एवञ्च - द्वासप्ततिहस्तविस्तृते प्रासादे पत्रिंशद्धस्तमितो गर्भः, गर्भपादसममानतया च नवहस्ता द्वारस्य विस्तृतिस्तदद्विगुणोservatorः तस्य चाधा विभक्तस्य एकमंशं पडङ्गुलाधिकस्तद्वयं परित्यज्य शिष्टानामष्टादशाङ्गुलाधिकपञ्चदशहस्तानां त्रिभागीकृतानां भागद्वयपरिमिता द्वादशाङ्गुलाधिकदशहस्ता प्रतिमा भवेदिति निष्कर्षः । एतच्च 'एकहस्ते तु प्रासादे मूर्त्तिरेकादशाङ्गुले ' (११ लो०) ि यदुक्तं ततोऽन्यादृशमेवेति मन्तव्यम् निरुक्तद्वारमानत एकहस्तविस्तृतप्रासादे द्वारस्य षडङ्गलत्वेन यथोक्तभागवशात् प्रतिमाया अष्टाविंशतियव परिमाणत्वप्रसक्तेः ।
For Private And Personal Use Only
समराङ्गणसूत्रधारे तूत्तममध्यमाधममूर्त्तीः प्रकृत्य -
(भव ? तच्च) द्वारं त्रिधा ( चत्वा ? भक्ता) पीठं भागेन कल्पयेत् । (ता ? द्वा) भ्यां (तु) प्रतिमा कार्या ज्येष्ठा (स्या ? यां) मानमीदृशम् ||
(अ: ७०, १४७ श्लो०) इति यदुत्तमप्रतिमापरिमाणमुक्तं तत् प्रकृतग्रन्थस्य कनिष्ठप्रतिमामानानुरूपम् । तथा कनिष्टमूर्तिपरिमाणे
देवता - ३