________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shei Kailassagarsuri Gyarmandie
सम्विति-साधुः समुदानं शुद्ध भैक्ष्यं समाश्रित्य चरेद्रच्छेत् , कुत्रेत्याह-कुलमुच्चावचं परं सदा अगर्हितत्वे सति, उच्चं प्रभूत-| धनापेक्षया प्रधानम् अवचं तुच्छधनापेक्षयाप्रधानं यथा परिपाट्येव चरेत्सदा सर्वकालं, परं नीचं कुलमतिक्रम्योल्लङ्घ्य विभ-1 वापेक्षया प्रभूततरलाभार्थमुत्सृतमृद्धिमत्कुलं नाभिधारयेन्न निषीदेन यायात्, कस्मात् ? अभिष्वङ्गलोकलाघवात्. २५. अथ कीदृशः किं कुर्यात्साधुस्तदाह-अदीण इति-पण्डितः साधुवृत्ति प्राणवर्तनमेषयेत्, परं न विषीदेदलामे सति न विषादं कुर्यात्, किंभूतः पण्डितः? अदीनो द्रव्यदैन्यमङ्गीकृत्याम्लानवदनः. पुनः किंभूतः पण्डितः भोजने मूर्छितोऽगृद्धः, पुनः किंभूतः
अदीणो वित्तिमेसिज्जा न विसिइज्ज पंडिए । अमुच्छिओ भोअणंमि मायण्णे एसणारए २६.
बहुं परघरे अस्थि विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे इच्छा दिज परो न वा २७. पण्डितः ? लाभे सति मात्राज्ञ आहारमात्रा प्रति, पुनः किंभूतः ? एषणारतउद्गमोत्पादनैषणापक्षपाती. २६. तत एवं च परिभावयेत्तदाह-बहुमिति-परगृहेऽसंयतादिगृहे बहु प्रमाणतः प्रभूतमस्ति, किं तत् ? खाद्यं स्वायं च, किम्भूतं ? विविधमनेकप्रकारम् उपलक्षणत्वादशनादिकमपि प्रभूतमस्ति, तत्सर्व सदस्ति, परं न ददाति तदा पण्डितो न कुप्येन्न रोपं कुर्याददातुरुपरि, किन्त्वेवं चिन्तयेत्-यदीच्छा स्यात्तदा फ्रो दद्यात्, न स्यात्तदा न दद्यात्, परमन्यत्किमपि न चिन्तयेत् कुतः ? सामा
For Private and Personal Use Only