________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ख्योऽस्ति परं स्वन्यं पिवन्नस्ति, तदा रोदनं करोतु वा मा वा साधुर्न गृह्णीयात्, अथापिवन्नपि यदि रोदिति तदापि न गृह्णीयात् अत्र शिष्यः प्राह - एवमाहारग्रहणे को दोषः ? गुरुराह- खरहस्तैर्बालिकादेर्भूम्यादौ निक्षिप्यमाणस्य अस्थिरत्वेन परितापनादोषो भवेत्, माजीरो वा तं बालादिकमपहरेत्. ४२. तमिति एवं दीयमानां स्त्रियं प्रति प्रत्याचक्षीत साधुः, किं वदेदिव्याह-तद्भक्तपानं तु पूर्वोक्तं संयतानामकल्पिकमकल्पनीयं यतः कारणादेवं ततो ददतीं स्त्रियं प्रति प्रत्याचक्षीत वदेत्, न मम कल्पते तादृशमिति ४३. किंबहुना ? उपदेशस्य सर्वरहस्यमाह - जमिति यद्भक्तपानं तु कल्पकल्पयोः कल्पनीया
तं भवे भत्तपाण तु संजयाण अकप्पिअं । दिंतिअ पडिआइक्खे न मे कप्पइ तारि ४३. जं भवे भत्तपाणं तु कप्पाकप्पंमि संकिअं । दितिअं पडिआइक्खे न मे कप्पइ तारिसं ४४. दगवारेण पिहिअं नीसाए पीढएण वा । लोढेण वा वि लेवेण सिलेसेण वि केणइ ४५.
कल्पनीययोर्विषये शकितं भवेन्न वयं विद्मः किमिदमुद्गमादिदोषयुक्तं किंवा नेति शङ्कास्थानं स्यात् तदित्थं भूतं कल्पनीयनिश्चये जाते सत्यशनादि दीयमानां स्त्रियं प्रति साधुरिति प्रत्याचक्षीतेति वदेत् किं ? न मम कल्पते तादृशमिति. ४४. पुनः कीदृशमाहारं न गृह्णीयादित्याह - दगेति यदशनादि भाजनस्थं दकवारेण पानीयकुम्भेन पिहितं स्थगितं भवेत्, तथा नीसाएत्ति निस्सारिकया पेषण्या. पीठकेन कालपीठादिना. लोढेन वापि शिलापुत्रकेण, तथा लेपेन वा मुल्लेपादिना श्लेषेण वा
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir