________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Kol-ननु साधवो दानभक्तपणे रता इत्युक्तं, यतश्चैवं तत एव लोको भक्त्याकृष्टचित्तस्तेभ्यः साधुभ्य आधाकर्मादि ददाति,
तस्य ग्रहणे जीवानां हिंसा स्यात् आहारस्याग्रहणे तु स्ववृत्तेरलाभेन स्वदेहधारणं न स्यात्. अत्रोच्यते-वयमिति - पवयं च वृत्तिं लप्स्यामः प्राप्स्यामस्तथा यथा न कोऽप्युपहन्यते, तथा यथाकृतेषु गृहस्थैरात्मार्थ निष्पादितेष्वाहारादिषु साधवो
रीयन्ते गच्छन्ति पुष्पेषु यथा भ्रमराः ४. अथ येन प्रकारेण साधवस्तथा चाह-महुगारेति-यतश्चैवमतस्ते मधुकरसम.
भ्रमरतुल्याः साधवः, पुनः किंभूताः ? बुद्धाज्ञाततत्त्वाः, एवंभूताये भवन्ति भ्रमन्ति वा, पुनः किम्भूताः ? अनिश्रिताः, कुलादि PI वयं च वित्तिं लप्भामो न य कोइ उवहम्मइ । अहागडेसु रीयंते पुप्फेसु भमरा जहा ४. महगारसमा
बुद्धाजे भवंति अणिस्सिया। नाणापिंडरया दंता तेन बुच्चंति साहुणो ति बेमि५. पुफियझयणं सम्मत्तं१. प्वप्रतिबद्धाः, पुनः किम्भूताः ? नानापिण्डरताः, नाना नानाप्रकारोऽभिग्रहविशेषात्प्रतिग्रहमल्पाल्पग्रहणाच्च पिण्ड आहारादिरन्तप्रान्तादिर्वा, तस्मिन्नानापिण्डे रता उद्वेगं विना स्थिताः, पुनः किम्भूताः ? दान्ता इन्द्रियनोइन्द्रियदमनेन, उपलक्षणवादी यादिसमिताच. ततश्चायमर्थ:-यथा भ्रमरोपमया एषणासमिती यतन्ते, तर्यादिष्वपि बसस्थावरभूतहितं यतन्ते, तेन "साधवः परमार्थतः साधव इत्युच्यन्ते. इतिशब्दः समाप्ती. वीम्यहं, परं न स्वबुद्ध्या, किन्तु तीर्थकरगणधराणामुपदेशेन. ५
इति श्रीदशवकालिकशब्दार्थवृत्ती श्रीसमयसुन्दरोपाध्यायविरचितायां दुमपुष्पिकाख्यं प्रथममध्ययनं समाप्तम्. १ लप्स्यामह इति वक्तव्येपीदं मूलस्थं पदमिति मन्तव्यम् । २ इन्द्रियाणिच नोइन्द्रियं चेति क्ग्रिहः । ३ हिते इति भाति ।
For Private and Personal Use Only