________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य०१.
दश दीपि
करणे सदा मनोन्तःकरणम् इति प्रथमगाथार्थः ॥ १ ॥ अथ यतीनामाहारग्रहणे विधिमाह-जहेति-यथा येन प्रकारेण दुमस्य वृक्षस्य पुष्पेषु भ्रमरो रसं मकरन्दमापिबति, परं न च नैव पुष्पं कामयति पीडयति स च भ्रमर आत्मानं प्रीणयति रसेनात्मानं सन्तोषयति. २. अयं दृष्टान्त उक्तः, दार्टान्तिकमाह-एवमनेन प्रकारेण एते श्रमणास्तपस्विनः ते च न तापसादयः, अत आह-कीदृशाः श्रमणाः ? मुक्ताः वाह्यपरिग्रहेण आभ्यन्तरपरिग्रहेण च, मुक्ताः, तत्र बाह्यपरिग्रहो धनधान्या दिरूपो नवविधः,आभ्यन्तरपरिग्रहश्च-"मिच्छत्तं वेअतिगं हासाइयं छक्कगं च नायव्वं । कोहाईण चउक्कं चउदस अमितरा
जहा दुमस्स पुप्फेसु भमरो आवियइ रसं । ण य पुप्फ किलामेइ सो अ पीणेइ अप्पयं २,
एमेए समणा वुत्ता जे लोए संति साहुणो। विहंगमा व पुप्फेसु दाणभत्तेसणे रया ३. गंठी१."इत्यादिरूपस्ताभ्यां रहितः, एते के ? ये श्रमणा लोकतृतीयद्वीपसमुद्रपरिमाणे सन्ति विद्यन्ते. पुनः कीदृशाःश्रमणाः? साधवो ज्ञानादिसाधकाः, पुनः कीदृशाः विहङ्गमा इव भ्रमरा इव पुष्पेषु दानभक्तपणे रताः, दानग्रहणाद् गृहस्थैर्दत्तं गृहन्ति
परं नादत्तं, भक्तग्रहणात्तदपि दत्तं पासुकं गृहन्ति, न आधाकर्मादि, एषणाग्रहणेन गवेषणादित्रयपरिग्रहः, एषु त्रिषु स्थानेषु Malरताः सक्ताः ३. अत्र कोऽप्याह
१ एमए, इति क्वचिसाठः । २ क्वचित्पकारघटितः क्वचिचवकार घटितः पाठः ।
।
For Private and Personal Use Only