________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
आगतस्तेन सहोपाश्रये, उपयोगं दत्तवानाचार्यः कियदायुरस्येति. ज्ञातं चातः परं षण्मासा आयुरस्यति, उत्पन्ना च बुद्धि-| राचार्यस्य, अस्य स्तोकायुषः किं कर्तव्यमिति, विममर्श च-"चउदसपुब्वी कम्हिीव कारणे समुप्पन्ने निजूहइ अपच्छिमो पुण चउदसपुब्बी अबस्समेव निजहइ, मम वि इमं कारणं समुप्पन्नं, तओ अहमवि निज्जूहामि, ताहे आढत्तो निज्जूहिउं जाव थावावसंसे दिअसे इमे दसज्झयणा निज्जूढा." उद्धृतानि विकालवेलायां पाश्चात्यचतुर्घटिकारूपायां स्थापितान्येकत्र कृ-| तानीति, ततः षडभिर्मासैरधीतमध्ययनमिदं दशवकालिकाख्यः श्रुतस्कन्धो मनकेन, ततः समाधिना स कालं गतः, तस्मिन | स्वर्गते आराधितमनेनेति शय्यंभवा आनन्दानुपातमकार्षुः, ततस्तत्प्रधानशिष्येण यशोभद्रेण कारण पृष्टे प्रोक्तं भगवता संसा-1 रस्वरूपम् ततो यशोभद्रादयो गुरुवहगुरुपुत्र वर्तितव्यमिति न्यायमार्गः.स चास्माभिन चरित इति पश्चात्तापं चक्रुः. अथ शय्यभवेनाल्पायुपमेनमवेत्य मयेदं शास्त्रमुद्धृतं.किमत्र युक्तमिति सपाय निवेदित विचारणा कृता.यदुत कालदोषात्प्रभूतसस्वानामिदमेवोपकारकमतस्तिष्ठत्वेतदिति नोपसंहृतं प्रवचनगुरुणति इति श्रीसमयमुन्दरोपाध्यायविरचितश्रीदशवकालिकशब्दार्थवृत्युपसंहारः संपूर्णः, ॥ श्रीरस्तु॥
इति श्रीदशवकालिकसूत्र सटीकं समाप्तम्.
For Private and Personal Use Only