SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥१०९॥ www.kobatirth.org धर्माच्च्युतस्य धर्मादुत्प्रव्रजितस्यैतानि भवन्ति कानीत्याह-इह लोक एवाधर्मो भवति. अयमधर्म इति, पुनरयशोऽपराक्रमेण कृतं न्यूनत्वं भवति, तथा कीर्तिरदानपुण्यफलमवादरूपा तथा दुर्नामधेयं च कुत्सितनामध्यं भवति, केत्याह - पृथग्जने सामा| न्यलोकेऽपि. आस्तां विशिष्टलोके, किंविशिष्टस्य ? धर्माच्च्युतस्य अधर्मसंविनः कलचादीनां निमित्तं षड्जीवनिकायस्योप| मर्दकारिणः पुनः किंविशिष्टस्य ? सम्भिन्नवृत्तस्य खण्डितचारित्रस्य किष्टकर्मबन्धादधस्ताद्गतिर्न रकेप्रपपातो भवति. १३. भुंजित्तु भोगाई पसज्झचेअसा तहाविहं कट्टु असंजमं बहुं । गईं च गच्छे अणिहिज्जिअं दुहं बोही अ से नो सुलहा पुणो पुणो १४. Acharya Shri Kailassagarsuri Gyanmandir अथास्यैवोत्प्रव्रजितस्य विशेषतः कष्टमाह-भुञ्जित्विति--स उत्प्रब्रजित एवंविधां गतिं गच्छति किं कृत्वा ? भोगान मुक्त्वा, केन ? प्रसह्यचेतसा धर्मनिरपेक्षतया प्रकटेन चित्तेन, पुनः किं कृत्वा ? तथाविधमज्ञानोचितफलं बहुमसन्तोषात्प्रभूतमसंयमं कृप्याद्यारम्भरूपं कृत्वा, किम्भूतां गतिम् ? अनभिध्यातामनिष्ट्रां, पुनर्दुःखां प्रकृत्यैवासुन्दरां, दुःखजननीं पुनरस्योत्प्रव्रजितस्य बोधिर्जिनधर्मप्राप्तिर्न सुलभा भवेत, पुनः पुनः प्रभूतेष्वपि जन्मसु दुर्लभा एव स्यात् कथं ? प्रवचनविराधकत्वात्. १४. For Private and Personal Use Only चूलि० १. ॥ १०९॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy