________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपिο
॥ ६॥
www.kobatirth.org
सिज्जेति - शय्यातरपिण्डोऽप्यनाचरितः शय्या वसतिस्तया तरति संसारमिति शय्यातरः साधूनां वसतिदाता तस्य पिण्डः, आसंदकपर्यङ्कङ्कौ लोकप्रसिद्धावनाचरितौ तथा गृहांतरनिषद्या गृहमेव गृहान्तरं गृहयोर्वा अपा (वा) न्तरालं. तत्रोपवेशनं. चशब्दात्पाटकादिपरिग्रहः तथा गात्रस्य कायस्योद्वर्तनानि पङ्कापनयनलक्षणानि चशब्दादन्यसंस्कारपरिग्रहः ५ गिहिणो इति- पुनर्गृहिणी गृहस्थस्य वैयावृत्त्यं, व्यावृत्तस्य भावो वैयावृत्यं गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः तथा
सिज्जायरपिंडं च आसंदीपलियंकए । गिहिंतरनिसिजा य गायस्सुव्वट्टणाणि य ५.
गिहिणो वेआवडियं जा य आजीववत्तिया । तत्तानिव्वुडभोइत्तं आउरस्सरणाणि य ६.
Acharya Shri Kailassagarsuri Gyanmandir
या चाजीववृत्तिता जातिकुलगणकर्मशिल्पानामाजीवनमाजीवः, तेन वृत्तिराजीववृत्तिः, तस्या भाव आजीववृत्तिता. जात्यादेराजीवनेनात्मपालनमित्यर्थः तप्ता निर्वृतभोजित्वं, तप्तं च तदनिर्वृतं तप्तानिर्वृतं, अत्रिदंडोद्धृतं चेति समासः उदकमिति शेषः, तस्य भोजित्वं मिश्रस चित्तोदकभोजित्वमित्यर्थः तथा आतुरस्मरणानि च क्षुधादिनातुराणां पीडितानां पूर्वोपभुक्तस्मरणानि . अथवा दोषातुराणामाश्रयदानादीनि. ६.
२ इदं निर्वृत्तिमित्यस्याग्रे द्रष्टव्यम् । समासो विग्रहः ।
For Private and Personal Use Only
अध्य० १.
॥ ६ ॥