________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyarmandie
www.kabalirth.org
देश दीपि०
रूपो व्युत्कान्तो भवति, कथम् ? अस्नानपरीषहस्यासहनात्, पुनः संयमः प्राणिरक्षणादिकः जहः परित्यक्तो भवति, कस्मात् ।। अप्कायादिविराधनात्, किंभूतः साधुः ? व्याधितो वा व्याधिग्रस्तो वा,पुनररोगी वा रोगरहितो वा, केनापि स्नानं न कर्तव्य|मित्यर्थः ॥ ६१ ॥ प्रासुकस्थानेन कथं संयमपरित्याग इत्याह-संतीति-सन्त्येते प्रत्यक्षमुपलभ्यमानाः सूक्ष्माः श्लक्ष्णाः प्राणिनो दीन्द्रियादयः, कासु ? घसासु सुषिरभूमिषु च, पुनर्भिलगाम तथाविधभूमिराजीषु, के ? यान् सूक्ष्मप्राणान् स्वानं कुर्वन् स्नान
संतिमे सुहुमा पाणा घसासु भिलगासु अ। जे अभिक्खू सिणायंतो विअडेणुप्पिलावए ६२. तम्हा ते न सिणायंति सीएण उसिणेण वा । जावजीवं वयं घोरं असिणाणमहिगा ६३.
सिणाणं अदुवा ककं लुद्धं पउमगाणि अ । गायस्सुव्वट्टणट्ठाए नायरन्ति कयाइ वि ६४. जलोज्झनक्रियया विकृतेन प्रासुकेन जलेनोप्लावयति, तथा च सति प्राणिविराधना भवेत्, ततश्च संयमपरित्यागः ६२. अथ निगमयन्नाह-तम्हेति-यस्मादेवं दोषा उक्तास्तस्मात्ते साधवो न स्नानं कुर्वन्ति, केन कृत्वा ? शीतोदकेन वा उष्णोदकेन वा, प्रासुकाप्रामुकेन वेत्यर्थः, यतस्ते साधवो यावज्जीवमाजन्म घोरम् दुरनुचरमस्नानमाश्रित्य व्रतमधिष्ठातारः, अस्यैव व्रतस्य कर्तारः ६३. सिणाणमिति-स्नानं पूर्वोक्तम्, अथवा कल्कं चन्दनादि, लोधं गन्धद्रव्यं, पद्मकानि च कुङ्कुमकेसराणि, चश-IN
For Private and Personal Use Only