________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 35 )
संगीततत्त्वसंचित्यै समाहृत्य महाशयः । पौरस्त्यान् दाक्षिणात्यान् च पाश्चात्यानुत्तरोद्भवान् ॥ पदवाक्यप्रमाणज्ञान् संगीतार्थविशारदान् । च्यानाय्य पण्डितानुच्चैः ग्राम हेमाम्बरादिभिः ॥ सत्कृत्याच स्म संगौतग्रन्थाः सम्पादिता मया । नैतेऽल्पबुद्धिभिर्ज्ञेया गूढाश्चात्यन्तविस्मृताः ॥ मनौषाभिरभिप्रायांस्तेषां ज्ञात्वा तिरोहितान् । सारमुद्धृत्य संत्यज्य विरुद्धानि यथोचितम् ॥ मार्गदेशी प्रसिद्धानि लक्षाण्यनुपम्टद्य च । ग्रन्थेनाल्पेन सर्वेषां एतेषामर्थसंग्रहम् ॥ कुरुध्वमैकमत्येन निश्चितार्था विपश्चितः । एवमाज्ञापितैः प्राज्ञैः सुलुताशाहिरुत्तमम् । aratकरदमुं नाम्ना श्रीसंगीतशिरोमणिम् ॥
राहिमसत्राजि शकराज्यं प्रशासति । वर्षे चतुर्दशशते पञ्चाशत्यधिके गते | वैकमार्के खवाणाभिशशिसंख्ये च शाकके । पदान्यपरिवर्त्त्यानि यानि रत्नाकरादिषु ॥ तान्येव क्वचिदत्रापि संग्रहायाक्रमोन्यथा । एतस्य लक्षणार्थत्वात्तथा ग्रन्थेषु दर्शनात् ॥ गौतं वाद्यं च नृत्यं च संगीतमिति कथ्यते । गीतवाद्ये उभे एव संगीतमिति केचन ॥ एतद्द्वयं द्विधा ज्ञेयं मार्गो देशीति तत्र च । ब्रह्माद्यैर्मार्गितं सम्यक् प्रयुक्तं भरतादिभिः ॥ पुरतः पार्वतीभर्तुरशेषाभ्युदयावहम् । गान्धर्वं वादनं नृत्यं यत् स मार्ग इति स्मृतिः ॥ देशे देशे नृपादीनां यदाह्लादकरं नवम् । गानं वाद्यं तथा नृत्यं तद्देशौत्युच्यते बुधैः ॥ नृत्यं तु वाद्यमन्वेति वाद्यन्टत्ये उभे व्यपि । अनुयातो यतो गौतं तत्तेनादौ प्रकीर्त्त्यते ॥ गौतं सविस्तरं साङ्गं संजग्राह चतुर्मुखः । च्अनेकधा विस्तृतं तत् ऋषिभिर्भरतादिभिः ॥
For Private and Personal Use Only