SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra B www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 34 ) घनाटोपं गर्जद्गजतुरगसेनाजलधरैः समं नौत्वाशङ्खं शकशलभसप्तार्चिषमयम् । तुरुष्कं निर्माय प्रकटितनयं तस्य तनयं व्यधाद् गौडान् प्रौढः पुनरपि शकानां जनपदान् ॥ या दक्षिणोदधेरा च हिमाद्रेरा च गाजनात् । या गौडादुज्ज्वलं राज्यं इबराहिमभूभुजः ॥ व्यस्यैव सार्वभौमस्य प्रतापात्पृथिवीपतिः । मलिकः सुलुताशाहिः मध्यदेशाधिपो भवत् ॥ गङ्गायमुनयोर्मध्ये गङ्गाया विपुले तटे | कडाख्यं नगरं तस्य वेण्या योजनपञ्चके ॥ यत्र बन्धः कवित्वेषु विवाहेषु करग्रहः । कलापातश्च तालेषु न्टत्येषु करणच्युतिः ॥ मर्यादाषड्भिरात्मा या ध्वनिमाजपरायणैः । जनैश्चतुष्पथान्युचैर्यस्य पूर्णानि सर्वदा ॥ ईशिता नगरस्यास्य देशस्यास्य महायशाः । बहादुरमलिक्कस्य पुत्रो ग्रन्थमचौकरत् ॥ सर्वेषामुपकाराय यशसे श[ [] श्वताय च । सपादलक्षं भरतनिर्मितं शास्त्रमादिमम् ॥ व्यानाय्य दक्षिणाद्देशात् सुलुतामाहिरुन्नतः । नानादेशगतान् ग्रन्थान् तदर्थानपरानपि ॥ संगीतसागरं रागार्णवं संगीतदीपिकान् । संगीतचूडामणिं च वादिमत्तगजांकुशम् ॥ संगीतरत्नाकराख्यं तथा संगीतदर्पणम् । तालार्णवं च संगीतकल्पवृक्षं सविस्तरम् ॥ संगीतरत्नावलिं च नृत्यरत्नावलीमपि । संगीतमुद्रां संगीतोपनिषत्सारमुत्तमम् ॥ संगीतसारकलिकां स्त्रीसंगीतविनोदकम् । 'व्यानन्दसंजीवनाख्यं तथा मुक्तावलीमपि ॥ मनोहरं भारतौं च व्याख्यानं बालबोधनम् । पूर्णानपूर्णान् नव्यांश्च संगौतज्ञैः कृतादरान् ॥ For Private and Personal Use Only
SR No.020284
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 14
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1955
Total Pages78
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy