________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(
36
)
बालः शयानः पर्यवन्तले यः स्याद्रुदन् शम् । सोऽपि गौतध्वनिं श्रुत्वा भवत्यानन्दमन्थरः । प्राणेभ्योऽप्यधिकं गौतसुखमित्यत्र को ममः । यन्मगा अपि यच्छन्ति श्रुत्वा गौतानि जीवितम् । चतुगी पुरुषार्थानां निदा[न]मिदमेव यत् । उपासते परं नादं मुनयोऽपि मुमुक्षवः । तत्र गौतप्रकाशेऽस्मिन् क्रमेण कथयिष्यते ॥ नादस्य जन्मस्थानानि श्रुतयः श्रुतिजातयः । तासां खरेखवस्थानं सप्तशुद्धखरास्ततः ॥ विकृता हादशामौषां विनियोगो निदर्शनम् । कुलानि वर्णजात्यादिरथ ग्रामाश्च मूर्च्छनाः॥ शुद्धतानाः कूटतानाः तेषां संख्या सविस्तरा। तानानां खण्डमेरुश्च नछोद्दिष्टावबोधकः ॥ साधारणं प्रयोगाश्च काकल्यान्तरयोबिधा । वर्गालक्ष्मचतुःषशिरलंकाराश्च जातयः । त्रयोदशविधं लक्ष्म जातीनां गौतयस्तथा । अनन्तरं क्रमाग्रामरागाणामपि लक्षणम् । खरूपमुपरागाणां अथ रागनिरूपणम् ॥ भाषाणां सविभाषाणां लक्ष्म सांतरभाषया । रागाङ्गभाषाङ्गक्रियाङ्गगोपाङ्गानाञ्च लक्षणम् ॥ अथ तालः तस्य भेदौ मार्गो देशौति तत्र च । मार्गतालकलाः पाताः पन्थानश्च चतुर्विधाः ॥ अशी मात्राः कला मानं मानं लध्वादिकस्य च । दैविध्यं मार्गतालस्य तत्र चैककलादिकाः॥ भेदास्ततः खण्डसंज्ञा देशी तालाश्च तेषु च । विरामादेश्च नामानि रूपाणि विविधान्यपि ॥ देशी तालप्रत्ययाश्च क्रमात् प्रस्तारपूर्वकाः । अङ्गानि गौततालानां लयाः सयतयो ग्रहाः ॥ धातवोऽत्र प्रधानानां घडङ्गानि च जातयः । शुद्धच्छाया लगश्चेति द्विधा सूडश्चतुर्विधाः ॥
For Private and Personal Use Only