________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ 478 ]
345
Acharya Shri Kailassagarsuri Gyanmandir
1530 क्षपणासारः सटिप्पण: ( Ksapanasārah Satippanah)
by Madhavacandra, desciple of Namicandra Saiddhanta
Substance : Country-made paper 14 x 50 inches. Folia, 25, Lines, 25 on a page. Extent in Ślokas, 3400. Character, Nāgari. Date, Samvat 1640. Appearance, fresh. Generally correct. Complete.
Mangalācaraṇa:
श्रीसद्धर्म समुद्रनन्दनवरः संवृद्ध रत्नाकरः
सत्सेव्यो विमलोऽतलः शुभकरो लोक-प्रकाशप्रदः । उद्यद्धीबलभद्र माधवनत श्रीपादपद्मद्वयो
यूयं नमतादरात् कृतधियस्तं नेमिचन्द्रं सदा ।।
Comm.
क्षपणासारशास्त्रस्य नान्दीसूत व्याख्यानमिदं श्रीसद्धर्मसमुद्रनन्दनवरः सप्ताङ्गराज्यलक्ष्म्या विशिष्टक्षत्रधर्मेण च युक्तसमुद्रविजयप्रियपुत्रः संवृद्धरत्नाकरः प्राप्तप्रकर्षपरमावगाढ़ सम्यक्त केवलज्ञान + + ख्यात शुद्ध चारित्रलक्षणरत्नानामुत्पत्तिस्थानभूतः सत्सेव्यः गणधर कुलिशधर फणधर चक्रधर समु + + + पुण्डरीकाणामाराध्यः विलक्ष + + + भावात्मकखातिचतुष्टयरहितः अतुलः रूपेण कान्त्या माहात्म्येण च त्रैलोक्येऽप्यतिक्रान्तोपमः उपमातीतः सुखकरः तत्त्वोपदेशनद्वारेण सहज शारीरमानसागस्तकाणि चतुर्विधदुःखाणि निवार्य भव्यानामभ्युदय + + + स सुखस्य कर्ता लोकप्रकाशप्रदः केवलज्ञानदिवाकर- करनिकरेण विनेयजनस्वान्तध्वान्त सन्तानं निराकृत्य सकलपदार्थ यथार्थात्म्यस्य प्रकाशक: उद्यद्धीबलभद्रमाधवनुतश्रीपादपद्मद्वयः विवेककरीभूताभ्यां प्रत्यक्षवन्दकतया वर्तमानबलदेव वासुदेवाभ्यां स्तुत श्रीपादपद्मकमलयुगलः यः तं नेमिचन्द्रं नेमिनाथतीर्थकरं कृतधियो यूयं मुख्यमङ्गलकरणार्पितप्रीतयो यूयं सदा वन्द्यवन्दकभावपर्यन्तं + + + + नमतात् नमस्कारं कुरुत एवंविधं हरिकुलतिलकभूत नेमिनां स्वामिनं शास्त्रकारं स्वल्पनिर्भर भक्तारो नमन् यूयमपि नमस्कृत्य कृतार्था भवभेत्ति भव्यजनान् प्रेरितवानित्यपि शास्त्रकारस्य गुरु नेमिचन्द्रसैद्धान्तच [[ ] वत्तिवंदनारूपेणाथवा मङ्गलसूत्रव्याख्यानं कर्तव्यं श्रीसद्धर्मसमुद्रनन्दनवरः स्याद्वादलक्षण लक्ष्मीजनावासभूतविशिष्ट सागारानागार धर्मसमुद्रवर्धन मुख्यसद्रन्ताकरः पञ्चविंशतिमलरहितविशिष्ट सम्यक्त विचारचारुचारित सकल शास्त्रार्थ सार्थपरिच्छेदन पटि ++++ विमलज्ञानरूपरत्नानामुदयस्याकरभूतः सत्सेव्यः विद्वज्जनपूज्यः विमल: अनवरत - परमागम भावनासुधासागरावगाहप्रक्षालितात्मीय कलिकलुषमलपङ्कसन्दोह : अतुलः +++++++गुणैरद्वितीयः सुखकरः मिथ्यात्वाद्यपायनिराकरणेन सम्यक्ताद्युपाय प्रदर्शनेन समस्तजनस्य हितकरः । लोकप्रकाशप्रदः श्रुतज्ञानप्रबल प्रभाकरप्रभूतप्रभा प्रभादेन जनस्य सर्वपदार्थानां करतलामलकवद् दर्शकः उद्यद्धीबलभद्र माधवेन ++++सिद्धान्तार्थकरणप्रतिपादन समर्थमतिबलविशिष्टगुणैरुत्कृष्टमाधवचन्द्र
For Private and Personal Use Only