________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
15081 चैत्रे भाद्रपदे मासे माघेऽष्टानैकपर्वणि । अभिषेकाश्च जायन्ते यत्र मण्डलपूर्वकम् ।। ६१ ।। गायन्ति यत्र सन्नार्यो माङ्गल्यानि जिनेशिनाम् । वादयन्ति च वाद्यानि नृत्यन्ति पुरुषोत्तमाः ।। ६२ ।। सच्छायं पात्रसंयुक्तं सुमनोभिः समन्वितम् । फलदायकमुच्चैःस्थं नानाश्रवणसेवितम् ।। ६३ ।। यमुद्दिश्य समागत्य चतुर्दिग्भ्यो मुनीश्वराः । विश्राम्यन्ति च वन्दित्वा महाद्रुममिवाध्वगाः ।। ६४ ॥ युगलं ।। पूर्वजन्मजपापौघराशि संदग्धुमिच्छ कैः । भव्यमुत्क्षिप्तकर्पूरकृष्णागुरुजधूपजम् ।। ६५ ।। मण्डलीभूतमालोक्य धूम खे मेघशंकनं । अकाण्डे ताण्डवाटोपं यत्र तन्वन्ति वहिनः ।। ६६ ।। युगलं ।। येन चारुभटाख्येन पण्डितानां धृतेन वै । अन्वर्थे नहि पापारि निर्जितोऽत्र सुभाषिणा ।। ६७ ।। विलोक्य संसारशरीरभोग्यं विनश्वरं दर्भपुरस्थिताम्बुवत् । परोपकारे जगतीह सारे धृता मतिर्येन सदा विशुद्धा ।। १८ ।। यत्कीर्त्या हरहार चन्द्रकिरण प्रोत्तुंगदुग्धार्णव-- रंगद्भगतरङ्गसन्निभभया श्वेतीकृते विष्टपे । श्रीररिस्त्रिजनैविलोक्य वदनं स्वादर्शपट्टे सिते स्वभ्रं वा विकृति विबुध्य रुरुदे पत्युवियोगाद्भयात् ।। ६६ ।। पद्मावती जनी तस्य पद्माक्षपद्मसन्निभा । पद्मावती च नागाधिपते: सम्भोगदायिनी ॥ १० ॥ लावण्य-वाहिनीकाया यस्या रूपं विलोक्यते । युवानः स्मरवानौघविध्यन्ते शतजर्जरम् ।। १०१ ।। सीता मन्दोदरी गङ्गा द्रौपदी चन्दना जया । जिग्ये शीलेन सत्येन कलौ स्वःसौख्यदायिना ।। १०२ ।। प्रातः पवित्र भूताङ्गी समच्च्याइन्तमीश्वरम् । वन्दित्वा सुगुरून शास्त्रं श्रुत्वा गत्वा स्वमन्दिरम् ॥ १०३ ।। भोजनावसरे साध्वी या श्रद्धादि गुणान्विता । अॅक्ति विवीर्य पात्रेभ्यस्ततो भोजयते पति ।। १०४ ।। युग्मकम् ।। एषां मध्ये स्ववित्तेन न्यायेनोपाजितेन वै । संघेश वाहडाख्येन विनयादिगुणाश्रिता ।। १०५॥ विज्ञापयित्वा मेधाविनामानं पण्डितं वरं। सिद्धान्तरसतृप्तान्तःकरणं शरणं धियाम् ।। १०६ ।। खचित्वप ( ? ) हि साराख्यमगरान्नगराजितात् । चर्या सिंहतरङ्गिण्या मानाय्य स्व:समश्रियाम् ।। १०७ ।।
For Private and Personal Use Only