________________
(917) सूत्रच्छायाव्याख्यानाय त्रिमङ्गलाख्यं घार्तिकमारभमाणः स्वरूपानन्दं दृष्ट्रात्मागुरुपदः श्रीमद्गुरुपदवस्तुनिर्देशात्मकं मङ्गलमाचरति-जय जयेति । • • • • • • • • . . . . . . . . . . . . . . .
____5A. अत्रानन्दस्त्रिविधः परमानन्दः पूर्णानन्दः क्षुद्रानन्दश्चेति । तत्र परमानन्दः सच्चिदानन्दविग्रहः शुद्धात्माऽद्वितीयं ब्रह्मोच्यते । एषोऽस्य परमो लोकः एषोऽस्य परम आनन्दः एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति को हीवान्यात् कः प्राण्याद् यदेष आकाश मानन्दो न स्यादित्यादिश्रुतिभ्यः । पूर्णानन्दस्तु पूर्ण आनन्द इति व्युत्पत्त्या सहजात्मकर्मधिर-(१) गुरुब्रह्मदृष्टिायः (?) यमभिप्रेत्य श्रुतिरानन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति आह । अयमेव स्वाङ्गरूपसखीनां बोधार्थमचिन्त्यशक्तया सहजानन्दनिरूपितश्रुतिसङ्केतस्तन्त्राणां त्रिमङ्गलाख्यवार्तिकं विदधाति तमेतमयं परमात्मा स्वदृष्टा भूतार्थानुवादेन स्वाज्ञारूपाभिः श्रुतिभिः प्राह । तथा हि कठवल्लयां तावत् अविद्यायामन्तरे वे+यानाः स्वयं धीराः यन्नित्यं मन्यमानाः चन्द्रस्य मात्राः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः। स्वयं धीरा महान्तं विभुमात्मानं मत्वा धीरो न शोचति । अणुः पन्था वितरः पुराणः मा स्पृष्टोनुपित्तो मयैव तेन धीरा अपियन्ति ब्रह्मवित् उत्क्रम्य स्वर्गलोकमितो विमुक्ता इत्यादि श्रुत्या धीरा गमनं विनैव स्वयमेव धीरा इति मन्यमाना न साम्परायः ।
(5B.) प्रतिभाति बालं प्रसाधनं वित्तमोहेन मूढ़ अयं लोको नास्ति पर इति मानी पुनः पुनः वशमापद्यते मे इति श्रुतिस्थमृत्युवाक्यं श्रुतिस्थनचिकेतसम्प्रति स च परलोकः श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विदुः, आश्चर्य वक्ता कुशलोस्य लब्धा आश्चर्यज्ञाता कुशलोनुशिष्टः । अस्य यल्लोकस्य धक्ता आश्चर्यो विचिन्त्य शक्तिः मयैवानुवित्त इत्युक्तत्वात् अस्य लब्धा कुशल आनन्दात्मा धीरः ।
_GA. जिज्ञासामुत्पादयन् परमात्मा समाहृतवेदार्थानां सूत्राणां त्रिमङ्गलाख्यवार्तिकमचिन्त्यशक्तया धीरद्वारा प्रवर्त्तयामास । ___7A. क्षुद्रानन्दस्तु ... ... ... ... ... ... ... तदेव विषयसुखं क्षुद्रानन्द इत्युच्यते। यदा तु परमानन्दात्मानुग्रहेण झानं