________________
( 903 )
आविर्भावतिरोभावौ पदार्थानां यतस्ततः । नानित्यता तु विज्ञेया शास्त्रविद्भिविचक्षणैः ॥ १४ ॥ तिरोभावे तु कार्य्यं हि वर्त्तते कारणात्मना । आविर्भावे तु कार्य्यं हि यथा मृदि घटादयः ॥ १५ ॥
The Text consists of 96 Ślokas. End सूर्योदये शीतमपैति सर्व्व मार्गाचलोको जलजप्रकाशः । तमोनिवृत्तिद्विजकर्मवृत्तिस्तथैव मार्त्तण्डनिबन्धबोधे ॥
Colophon : इति श्रीमन्मुकुन्दराय सहजमाधुरीपरमानिर्वचनीयसरसवदनतामरससुधाहदावगाहिश्रीमदाचार्य्यकृपापारसार श्रीमत्प्रभुचरणा
त्मजमहाराजश्रीयदुनाथकुलोद्भवगोस्वामिश्रीगोपालजनुषा
श्रीगिरिधरेण
विरचितः शुद्धाद्वैतमार्त्तण्डः समाप्तिमभावीत् ॥
The commentary begins:
श्रीगोपीजन जीवार्तुजयति । श्रीमन्मुकुन्दरायाख्यश्रीमद्गोपाललालयोः । अङ्की श्रीवल्लभाचार्य्यश्रीविट्ठलपदाम्बुजे ॥ १ ॥ श्रीमतां यदुनाथानां तदीयान्वयशोभिनां । श्रीमगिरिधराख्यानां पादपद्मं प्रणम्य हि ॥ २ ॥ शुद्धाद्वैत विचार ये तैः श्लोकाः समुदाहृताः । तदाज्ञया तान् विशदीकरवाणि यथामति ॥ ३ ॥ The commentary ends:
इति श्रीयदुनाथानां कुलचूडामणेर्गुरोः । श्रीमद्भिरिधरस्याङ्घ्रि-सरोरुहपरागलिट् ॥ १ ॥ रामकृष्णः स्वबोधाय व्यरचत्तत्कृपाबलात् । शुद्धाद्वैताख्यसिद्धान्तमार्त्तण्डस्य प्रकाशकम् ॥ २ ॥ यदिदं सदसद् वापि प्रोक्तं धाष्टर्यान्मयात्र हि । तत्र श्रीबल्लभाचार्य्याः कृपयन्तु निजेश्वराः ॥ ३ ॥