________________
( 902 ) Beginning:
श्रीमदाचार्यचरणौ श्रीविठ्ठलपदाम्बुजे। श्रीमतां यदुनाथानां श्रीमदगिरिधरः सुधीः ॥ १ ॥ चरणाम्बुजकिञ्जल्करागान् प्रणिपत्य तं। शुद्धाद्वैतविचाराकं तनुते सुधियां मुदे ॥२॥ द्विधा ज्ञानं तु यद्यत् स्यानामरूपात्मना मुहुः । ईशजीवात्मनोरपि कार्यकारणतोथवा ॥ ३ ॥ हीतं तदेव द्वैतं स्यादद्वैतं तु ततोन्यथा। सर्व खल्विदं ब्रह्म तजलानिति पठ्यते ॥४॥ सव्वं ब्रह्मात्मकं विश्वमिदमाबोध्यते पुरः । सर्वशब्देन यावद्धि दृष्टश्रुतमदो जगत् ॥५॥ बोध्यते तेन सर्च हि ब्रह्मरूपं सनातनम् । कार्यस्य ब्रह्मरूपस्य ब्रह्मैव स्यात्तु कारणम् ॥ ६ ॥ जन्माद्यस्येत्यादि-सूत्रासपादै निरूपितम् । यतो वेत्यादिव्याक्येष वेदे स्पष्टं प्रतीयते ।। ७ ।। साकारं सर्वशक्तयकं सर्वशं सर्वकर्तृ च । सच्चिदानन्दरूपं हि ब्रह्म तस्मादिदं जगत् ॥ ८॥ जड़जीपान्तःस्थितानां यथा क्रमश उद्गमः । अग्नेयथा विस्फुलिङ्गास्तथा जीवोद्गमः स्फुटः ।। ६ !. विसर्पिगुणचैतन्योऽणुर्जीवोंशो हरेः स्मृतः । जड़े चिदानन्दयोस्तु चित्यानन्दस्य सर्वशः ॥१०॥ तिरोधानं हरीच्छातो निबन्धादिषु पर्णितम् । आविर्भावे तु सव्वं हि ब्रह्मैवेति न संशयः ॥ ११ ॥ रमणार्थमिदं सव्वं ब्रह्मैव स्वेच्छयाभवत् । यथा सर्पः स्वेच्छया हि कुण्डलाकारतां गतः ॥ १२॥ न धिकारि तथा ब्रह्म व्यासैः सूत्रे निरूपितम् । सुवर्णस्याधिकारित्वं कामधेनोर्मणेरपि ॥ १३ ॥