________________
( 866 ) Beginning :
श्रीकृष्णाय नमः ॥ लौकिको वैदिकश्च व्यवहारो द्विधा मतः । लोकसिद्धं पुरस्कृत्य वैदिको बोध्यते यथा ॥१॥ लोके शब्दार्थसम्बन्धो रूपं तेषां च यादृशम् । न विवादस्तत्र कार्यो लोकोच्छित्तिस्तथा भवेत् ।। २ । ब्रह्मवादे निरुक्तिस्तु नो वक्तव्येध कुत्रचित् । वस्तुतो ब्रह्म सर्वं हि व्यवहारस्तु लोकतः ॥ ३ ॥ ये धातुशब्दा यत्रार्थ उपदेशे प्रकीर्तिताः । तथैवार्थो वेदराशेः कर्त्तव्यो नान्यथा क्वचित् ॥ ४ ॥ काण्डद्वयार्थसिद्धयर्थं स्वाध्यायविधिरुच्यते ॥ वाक्यत्रयं तथा वेदे स्वाध्यायोध्येतव्यः अष्टघर्ष ब्राह्मणमुपनयीत तं अध्यापयीत साङ्गो वेदोऽध्येयो शेयश्चेति अनारभ्वाधीतमेघ हि। एकार्थता तु सर्वत्र विशेषोप्युच्यते स्फुटः । स्वाध्यायशब्दो वेदे हि रूढ़ो योगोऽपि वर्त्तते ॥५॥ तथा समन्तादध्येयः शोभनं नियमैर्युतं । देशे काले गुरौ स्वस्मिन् ये प्रेक्षन्ते गुणास्तुिह ॥ ६ ॥ आसर्वतः पुनस्तत्र यथा शङ्का न जायते ।
शब्दे ह्यर्थे अनुष्ठाने तथा ध्येयो हि वैदिकैः ॥ ७॥ 2B:
ये वैदिका महात्मानस्तेषां चानुमतिस्तथा । अवेदषिन्न मनुते मया चोपेक्षितः पुनः ॥ ३६ ॥ स्थापितो ब्रह्मवादो हि सर्ववेदान्तगोचरः । काशीपतिस्त्रिलोकेशो महादेवस्तु तुष्यतु ॥ ३७॥ कस्यचित्त्वथ संदेहः स मां पृच्छतु सर्वथा। न भयं तेन कर्त्तव्यं ब्राह्मणानामियं गतिः ॥ ३८ ॥ डिडिस्तु वादिनो द्वारि विश्वेशस्य मयापि हि । विद्वद्भिः सर्वथा श्राव्यं ते हि सन्मार्गरक्षकाः ॥ ३६ ।।