SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ ( 860 ) अदेयदानदक्षश्च महोदारचरित्रवान् । प्राकृतानुकृतिव्याजमोहितासुरमानसः ॥ ११ ॥ वैश्वानरो वल्लभाख्यः सद्रूपो हितकृत् सतां । जनशिक्षाकृते कृष्णभक्तिकृन्निखिलेष्टदः ॥ १२ ।। सर्वलक्षणसम्पन्नः श्रीकृष्णज्ञानदो गुरुः । स्थानन्दतुन्दिलः पद्मदलायतविलोचनः ॥ १३ ॥ कृपादृवृष्टिसंहृष्टदासदासीप्रियः पतिः । रोषदृक्पातसंप्लुष्टभक्तिद्विट भक्तसेवितः ।। १४ ।। सुखसेव्यो दुराराध्यो दुर्लभावि,सरोरुहः । उग्रप्रतापो वाक्शीधुपूरिताशेषसेवकः ।। १५ ।। श्रीभागवतपीयूषसमुद्रमथने क्षमः तत्सारभूतरासस्त्रीभाषपूरितविग्रहः ।। १६ ॥ सान्निध्यमात्रदत्तश्रीकृष्णप्रेमा विमुक्तिदः । रासलीलैकतात्पर्य्यः कृपयैतत्कथाप्रदः ॥ १७ ॥ विरहानुभवैकार्थसर्वत्यागोपदेशकः । भक्त्याचारोपदेष्टा च कर्ममार्गप्रवर्तकः ॥ १८ ॥ यागादौ भक्तिमार्गकसाधनत्वोपदेशकः । पूर्णानन्दः पूर्णकामो वाक्पतिर्विबुधेश्वरः ॥ १६ ।। कृष्णनामसहस्रस्य वक्ता भक्तपरायणः । भक्त्याचारोपदेशार्थनानावाक्यनिरूपकः ॥ २० ॥ स्वार्थे हिताखिलप्राणप्रियस्तादृशचेष्टितः । स्वदासार्थकृताशेषसाधनः सर्वशक्तिधृक् ॥ २१ ॥ भुवि भक्तिप्रचारैककृतस्वान्वयकृत् पिता । स्ववंशे स्थापिताशेषस्वमाहात्म्यस्मयापहः ॥ २२ ॥ पतिव्रता-पतिः पारलौकिकैहिकदानकृत् । निगूढहृदयोऽनन्यभक्तेषु ज्ञापिताशयः ॥ २३ ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy