________________
(
859 .)
The text consists of 35 verses with the following colophon :
इति श्रीमदग्निकुमारप्रोक्तं सर्वोत्तमस्तोत्रं सम्पूर्णम् ।
Vallabhācārya, the founder of the Vallabha sect, was an incarnation of Agni, and so his son Vitthala is described as Agnikumāra.
The Text:
प्राकृतधर्मानाश्रयमप्राकृतनिखिलधर्मरूपमिति | निगमप्रतिपाद्यं यत्तत् शुद्धं साकृति स्तौमि ।। १ ॥ कलिकालतमश्छन्नदृष्टित्वाद्विदुषामपि । संप्रत्यविषयस्तस्य माहात्म्यमभवद्भुवि ॥ २ ॥ दयया निजमाहात्म्यं करिष्यन् प्रकटं हरिः । वाण्या यदा तदा स्वाद्यं प्रादुर्भूतं चकार हि ॥३॥ ऋषिरग्निकुमारस्तु नाम्नां छन्दो जगत्यसौ ॥ ४ ॥ श्रीकृष्णास्यं देवता च बीजं कारुणिकः प्रभुः ॥५॥ तदुक्तमपि दुर्बोधं सुबोधं स्याद्यथा तथा । नाम्नामष्टोत्तरशतं प्रवक्ष्याम्यखिलात्महृत् ॥ ४॥ विनियोगो भक्तियोगः प्रतिबन्धविनाशने । कृष्णाधरामृतास्वादसिद्धिरत्र न संशयः ॥ ६ ॥ आनन्दः परमानन्द श्रीकृष्णास्यं कृपानिधिः । देवोद्धारप्रयत्नात्मा स्मृतिमात्रार्त्तिनाशनः ॥ ७॥ श्रीभागवतगूढार्थप्रकाशनपरायणः । साकारब्रह्मवादकस्थापको वेदपारगः ।। ८॥ मायावादनिराकर्ता सर्ववादिनिरासकृत् । भक्तिमार्गाब्जमार्तण्डः स्त्रीशूद्रायुद्धतिक्षमः ॥ ६ ॥ अङ्गीकृत्यैव गोपीशवल्लभीकृतमानवः । अङ्गीकृतो सम-दो महाकारुणिको विभुः ॥ १० ॥