________________
(832)
Leaf 10.
यत्र नरपतिहिते हिताभिरतो भरतो नाम सचिवः कृतः ॥ १० ॥ यत्र धर्मकर्म्म कलापमकुशलः पुरोहितः स्मरसूत्रधरो नाम ॥ ११ ॥ यत्र राजनगरोपकरणप्रसाधनं शिल्पिप्रवरोऽद्भुतो नाम । राज्ञा सत्कृत्य निजानुकूला पूर्वनगर निर्माणायादिष्टः तथैव
तदनुकरोति स्म ॥ १२ ॥
यत्र निगमेतिहासपुराणसंहितादिषु 'सुवर्णखचितोत्तमागमबहुवर्णकर्कशतर्करत्नसकलसन्दोहयत्नरचितो ललितोन्नतो विविधतत् सिद्धान्तानलपत्रावलिवलितो दुर्ज्जनाजितो विद्वज्जनसभाजितो विराजते सर्वतो नगरं सुपर्वतोपमाकारप्राकारः ॥ १३ ॥
यत्र लौकिककवितालता प्रतानपरिरम्भिताङ्करितकोरकितमुकुलित विकसितफलित काव्यनाटकादितरुनिलयम् । विविधगन्धाधारमन्थरशीतला निलमिलन ललन्नवलकिशलयं सर्वतः परिखावलयं पराममारामुकुलं ॥ १६॥ यत्रान्तर्नगरं याचककुसुम्भरससरसविमलहिङ्गुलसिन्दूर
लेशपेशलपिच्छिलकुङ्कुमपङ्काङ्गरागवती चप्रकटपरमानुरागवतीव वसुमती भाति शोनमणिमयी ॥ १७ ॥
यत्रानुरागरसरञ्जितमनसः कुसुम्भकुङ्कुमरसरञ्जितवाससः सर्व एव नगरनिवासिनः कृता यत्र सर्वे पतत्रिणोऽप्यरुणाः । यत्र दिग्दर्शनाय हंसानामरुणत्वोदाहरणम् यथा, अहो महीयानमहिमा परोक्षराधापदाधारमहीतलस्य पयोविवेकप्रचुरप्रशंसो हंसोऽपि यत्रारुणतां प्रयातीति ॥ २२ ॥ यत्र वीरद्वयहास विशदसंज्ञौ भूपोपमन्त्रिणौ रत्येवाधिकृतौ ॥ २३ ॥